वांछित मन्त्र चुनें
145 बार पढ़ा गया

व॒शाया॑ दु॒ग्धं पी॒त्वा सा॒ध्या वस॑वश्च ये। ते वै ब्र॒ध्नस्य॑ वि॒ष्टपि॒ पयो॑ अस्या॒ उपा॑सते ॥

मन्त्र उच्चारण
पद पाठ

वशाया: । दुग्धम् । पीत्वा । साध्या: । वसव: । च । ये । ते । वै । ब्रध्नस्य । विष्टपि । पय: । अस्या: । उप । आसते ॥१०.३१॥

अथर्ववेद » काण्ड:10» सूक्त:10» पर्यायः:0» मन्त्र:31


पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर शक्ति की महिमा का उपदेश।

पदार्थान्वयभाषाः - (ये) जो लोग (साध्याः) परोपकार साधनेवाले [साधु] (च) और (वसवः) श्रेष्ठ स्वभाववाले हैं, (ते वै) वे ही (वशायाः) वशा [कामनायोग्य परमेश्वरशक्ति] की (दुग्धम्) पूर्णता को (पीत्वा) पान करके (ब्रध्नस्य) नियन्ता [महान् परमेश्वर] के (विष्टपि) सहारे में (अस्याः) इस [परमेश्वरशक्ति] के (पयः) ज्ञान का (उप आसते) सेवन करते हैं ॥३१॥
भावार्थभाषाः - परोपकारी साधु महात्मा परमेश्वर की सूक्ष्म शक्तियों के ध्यान से अपना ज्ञान और बल बढ़ाकर सुखी होते हैं ॥३१॥
टिप्पणी: ३१−(पीत्वा) अनुभूय (ते) (वै) एव (ब्रध्नस्य) अ० ७।२२।२। बन्ध बन्धने-नक्, ब्रधादेशः। ब्रध्नो महन्नाम-निघ–० ३।३। बन्धकस्य नियामकस्य महतः परमेश्वरस्य (विष्टपि) वि+ष्टभि प्रतिबन्धे-क्विप् भस्य पः। यद्वा, विटपविष्टपविशिपोलपाः। उ० ३।१४५। विश प्रवेशने-कप् प्रत्ययः, तुडागमः, अन्त्याऽकारलोपः। विष्टपं साधारणनाम-निघ० १।४। विष्टबादित्यो भवत्याविष्टो रसानाविष्टो भासं ज्योतिषामाविष्टो भासेति वाथ द्यौराविष्टा ज्योतिर्भिः पुण्यकृद्भिश्च-निरु० २।१४। विष्टम्भने। प्रवेशे। आश्रये (पयः) पय गतौ-असुन्। ज्ञानम् (अस्याः) वशायाः (उपासते) सेवन्ते। अन्यत् पूर्ववत्−म० ३० ॥