वांछित मन्त्र चुनें
137 बार पढ़ा गया

व॒शामे॒वामृत॑माहुर्व॒शां मृ॒त्युमुपा॑सते। व॒शेदं सर्व॑मभवद्दे॒वा म॑नु॒ष्या॒ असु॑राः पि॒तर॒ ऋष॑यः ॥

मन्त्र उच्चारण
पद पाठ

वशाम् । एव । अमृतम् । आहु: । वशाम् । मृत्युम् । उप । आसते । वशा । इदम् । सर्वम् । अभवत् । देवा: । मनुष्या: । असुरा: । पितर: । ऋषय: ॥१०.२६॥

अथर्ववेद » काण्ड:10» सूक्त:10» पर्यायः:0» मन्त्र:26


पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर शक्ति की महिमा का उपदेश।

पदार्थान्वयभाषाः - (वशाम्) वशा [कामनायोग्य परमेश्वरशक्ति] को (एव) ही (अमृतम्) अमृत [अमरपन] (आहुः) वे [ऋषिः] बताते हैं, (वशाम्) वशा को (मृत्युम्) मृत्यु [समान] (उप आसते) वे मानते हैं। (वशा) वशा (इदम् सर्वम्) इस सब में (अभवत्) व्यापक हुई है, और (देवाः) देव [विजयी] (मनुष्यः) मनुष्य [मननशील], (असुराः) असुर [बुद्धिमान्], (पितरः) पितर [पालन करनेवाले] और (ऋषयः) ऋषि [सूक्ष्मदर्शी लोग] [जो हैं, उन सब में वह व्यापक हुई है] ॥२६॥
भावार्थभाषाः - ईश्वरशक्ति से प्राणी अपने कर्मानुसार अमृत अर्थात् मोक्ष और मृत्यु अर्थात् बन्धन पाते हैं। वही ईश्वरशक्ति समस्त जगत् में व्यापक है, जितेन्द्रिय विचारशील पुरुष उस शक्ति का अनुभव करते हैं ॥२६॥
टिप्पणी: २६−(वशाम्) कमनीयां परमेश्वरशक्तिम् (एव) (अमृतम्) अमरणम्। मोक्षम् (आहुः) कथयन्ति विद्वांसः (वशाम्) (मृत्युम्) मरणम्। दुःखभोगम् (उपासते) मन्यन्ते। पूजयन्ति (वशा) (इदम्) दृश्यमानम् (सर्वम्) जगत् (अभवत्) भू प्राप्तौ। व्याप्नोत् (देवाः) विजयिनः (मनुष्याः) मननशीलाः (असुराः) अ० १।१०।१। असुरत्वं प्रज्ञावत्त्वम्-निरु० १०।३४। प्रज्ञावन्तः (पितरः) पालकाः (ऋषयः) सूक्ष्मदर्शिनः। ये तान् अभवत् व्याप्नोत्-इति शेषः ॥