वांछित मन्त्र चुनें
देवता: वशा ऋषि: कश्यपः छन्द: बृहती स्वर: वशागौ सूक्त
138 बार पढ़ा गया

सर्वे॒ गर्भा॑दवेपन्त॒ जाय॑मानादसू॒स्वः। स॒सूव॒ हि तामा॒हुर्व॒शेति॒ ब्रह्म॑भिः॒ क्लृप्तः स ह्यस्या॒ बन्धुः॑ ॥

मन्त्र उच्चारण
पद पाठ

सर्वे । गर्भात् । अवेपन्त । जायमानात् । असूप्स्व: । ससूव । हि । ताम् । आहु: । वशा । इति । ब्रह्मऽभि: । क्लृप्त: । स: । हि । अस्या: । बन्धु: ॥१०.२३॥

अथर्ववेद » काण्ड:10» सूक्त:10» पर्यायः:0» मन्त्र:23


पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर शक्ति की महिमा का उपदेश।

पदार्थान्वयभाषाः - (सर्वे) सब [ऋषि] (असूस्वः) सत्ता की उत्पन्न करनेवाली [परमेश्वरशक्ति] के (जायमानात्) उत्पन्न होते हुए (गर्भात्) गर्भ [संसार] से (अवेपन्त) थरथराये, (हि) क्योंकि (ताम्) उस [शक्ति] को (आहुः) वे [ब्रह्मज्ञानी] बताते हैं कि−“(वशा) वशा [कामनायोग्य परमेश्वरशक्ति] ने (ससूव इति) उत्पन्न किया था, (हि) क्योंकि (ब्रह्मभिः) वेदज्ञानों से (क्लृप्तः) समर्थ (सः) वह [परमेश्वर] (अस्याः) इस [शक्ति] का (बन्धुः) बन्धु [संबन्धवाला] है ॥२३॥
भावार्थभाषाः - ऋषि लोग बड़ा आश्चर्य मानते हैं कि महाबली परमेश्वर की महाबलवती शक्ति है, जिसने यह महान् संसार रचा है ॥२३॥
टिप्पणी: २३−(सर्वे) ऋषयः (गर्भात्) गर्भरूपात् संसारात् (अवेपन्त) कम्पितवन्तः (जायमानात्) उत्पद्यमानात् (असूस्वः) असू−स्वः। कृषिचमितनि०। उ० १।८०। अस सत्तायाम्-ऊ+षूङ् प्राणिगर्भविमोचने-क्विप्। आडभावो यणादेशश्च। असूं सत्तां सृष्टिं सूयते सा असूसूस्तस्याः असूस्वाः। सत्तायाः सृष्टेः जनयित्र्याः परमेश्वरशक्तेः (ससूव) षूङ् प्राणिगर्भविमोचने-लिट्। ससूवेति निगमे। पा० ७।४।७४। इति परस्मैपदे रूपम्। सुषुवे। जनयामास (हि) यस्मात् (ताम्) परमेश्वरशक्तिं प्रति (आहुः) कथयन्ति मनीषिणः (वशा) कमनीया परमेश्वरशक्तिः (ब्रह्मभिः) वेदज्ञानैः (क्लृप्तः) समर्थः (सः) परमेश्वरः (हि) यस्मात् (अस्याः) वशायाः (बन्धुः) सम्बन्धी ॥