वांछित मन्त्र चुनें
देवता: वशा ऋषि: कश्यपः छन्द: अनुष्टुप् स्वर: वशागौ सूक्त
130 बार पढ़ा गया

यदु॒दरं॒ वरु॑ण॒स्यानु॒प्रावि॑शथा वशे। तत॑स्त्वा ब्र॒ह्मोद॑ह्वय॒त्स हि ने॒त्रमवे॒त्तव॑ ॥

मन्त्र उच्चारण
पद पाठ

यत् । उदरम् । वरुणस्य । अनुऽप्राविशथा: । वशे । तत: । त्वा । ब्रह्मा । उत् । अह्वयत् । स: । हि । नेत्रम् । अवेत् । तव ॥१०.२२॥

अथर्ववेद » काण्ड:10» सूक्त:10» पर्यायः:0» मन्त्र:22


पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर शक्ति की महिमा का उपदेश।

पदार्थान्वयभाषाः - (वशे) हे वशा ! [कामनायोग्य परमेश्वरशक्ति] (यत्) जब [प्रलय में] (वरुणस्य) वरुण [सब के ढकनेवाले परमेश्वर] के (उदरम्) पेट में (अनुप्रविशथाः) तूने प्रवेश किया। (ततः) फिर [सृष्टिकाल में] (त्वा) तुझे (ब्रह्मा) ब्रह्मा [महाविद्वान् परमेश्वर] ने (उत् अह्वयत्) ऊपर बुलाया, (हि) क्योंकि (सः) उस ने (ते) तेरा (नेत्रम्) नायकपन (अवेत्) जाना था ॥२२॥
भावार्थभाषाः - सर्वनेता परमेश्वर अपनी शक्ति को प्रलयसमय में अपने भीतर लय और सृष्टि समय में संसार के भीतर प्रकट करता है ॥२२॥
टिप्पणी: २२−(यत्) यदा। प्रलये (उदरम्) जठरम्। स्वरूपम् (वरुणस्य) सर्वस्य वारकस्याच्छादकस्य परमेश्वरस्य (अनुप्रविशथाः) अनुक्रमेण प्रविष्टवती त्वम् (वशे) म० २। हे कमनीये परमेश्वरशक्ते (ततः) तदुपरान्ते। सृष्टिकाले (ब्रह्मा) प्रवृद्धो महापण्डितः परमेश्वरः (उदह्वयत्) उत्कर्षेणाहूतवान्। प्रकटीकृतवान् (सः) ब्रह्मा (हि) यस्मात् (नेत्रम्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। णीञ् प्रापणे−ष्ट्रन्। नयनम्। नेतृत्वम् (अवेत्) विद ज्ञाने-लङ्। अजानात् (तव) ॥