वांछित मन्त्र चुनें

प्र॑ती॒चीन॑ आङ्गिर॒सोऽध्य॑क्षो नः पु॒रोहि॑तः। प्र॒तीचीः॑ कृ॒त्या आ॒कृत्या॒मून्कृ॑त्या॒कृतो॑ जहि ॥

मन्त्र उच्चारण
पद पाठ

प्रतीचीन: । अङ्गिरस: । अधिऽअक्ष: । न: । पुर:ऽहित: । प्रतीची: । कृत्या: । आऽकृत्य । अमून् । कृत्याऽकृत: । जहि ॥१.६॥

अथर्ववेद » काण्ड:10» सूक्त:1» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के कर्तव्य दण्ड का उपदेश।

पदार्थान्वयभाषाः - (प्रतीचीनः) प्रत्यक्ष चलनेवाला, (आङ्गिरसः) वेदों का जाननेवाला (नः) हमारा (अध्यक्षः) अध्यक्ष और (पुरोहितः) पुरोहित [अग्रगामी] तू (कृत्याः) हिंसाओं को (प्रतीचीः) प्रतिकूलगति (आकृत्य) सर्वथा करके (अमून्) उन (कृत्याकृतः) हिंसाकारियों को (जहि) मार डाल ॥६॥
भावार्थभाषाः - वेदज्ञाता नीतिनिपुण पुरुष दुराचारियों को यथावत् अनुसन्धान करके दण्ड देवे ॥६॥
टिप्पणी: ६−(प्रतीचीनः) अ० ४।३२।६। प्रत्यक्षं गच्छन् (आङ्गिरसः) अ० २।१२।४। तदधीते तद्वेद। पा० ४।२।५९। इत्यण्। अङ्गिरसां वेदानां ज्ञाता (अध्यक्षः) अधिपतिः (नः) अस्माकम् (पुरोहितः) अ० ३।१९।१। अग्रेसरः (प्रतीचीः) प्रतिकूलगतीः (कृत्याः) म० ४। हिंसाः (आकृत्य) निष्पाद्य (अमून्) (कृत्याकृतः) म० २। हिंसाकर्तॄन् (जहि) मारय ॥