191 बार पढ़ा गया
यद्दु॒र्भगां॒ प्रस्न॑पितां मृ॒तव॑त्सामुपेयि॒म। अपै॑तु॒ सर्वं॒ मत्पा॒पं द्रवि॑णं॒ मोप॑ तिष्ठतु ॥
पद पाठ
यत् । दु:ऽभगाम् । प्रऽस्नपिताम् । मृतऽवत्साम् । उपऽएयिम् । अप । एतु । सर्वम् । मत् । पापम् । द्रविणम् । मा । उप । तिष्ठतु ॥१.१०॥
अथर्ववेद » काण्ड:10» सूक्त:1» पर्यायः:0» मन्त्र:10
पण्डित क्षेमकरणदास त्रिवेदी
राजा के कर्तव्य दण्ड का उपदेश।
पदार्थान्वयभाषाः - (यत्) यदि (दुर्भगाम्) दुर्भाग्यवाली, [अथवा] (स्नपिताम्) शुद्ध आचरणवाली, [अथवा] (मृतवत्साम्) मरे बच्चेवाली [शोकातुर स्त्री] के (उपेयिम) हम पास गये हैं, (सर्वम्) सब (पापम्) पाप (मत्) मुझ से (अप एतु) हट जावे, (द्रविणम्) बल (मा) मुझको (उप तिष्ठतु) प्राप्त हो ॥१०॥
भावार्थभाषाः - जो मनुष्य से दुष्कर्म हो जावे, वह यथावत् दण्ड भोगकर धर्म में प्रवृत्त होकर सुखी होवे ॥१०॥
टिप्पणी: १०−(यत्) यदि (दुर्भगाम्) दुर्भाग्यवतीम् (स्नपिताम्) शोधिताम् शुद्धाचाराम् (मृतवत्साम्) मृतबालकाम्। शोकग्रस्तामित्यर्थः (उपेयिम) उप+आङ्-ईयिम। वयं प्राप्तवन्तः (अपैतु) दूरे गच्छतु (सर्वम्) (मत्) मत्तः (पापम्) अनिष्टं दुःखम् (द्रविणम्) बलम् (मा) माम् (उप तिष्ठतु) प्राप्नोतु ॥
