वांछित मन्त्र चुनें

अ॒स्मिन्वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः। इ॒ममा॑दि॒त्या उ॒त विश्वे॑ च दे॒वा उत्त॑रस्मि॒ञ्ज्योति॑षि धारयन्तु ॥

मन्त्र उच्चारण
पद पाठ

अस्मिन् । वसु । वसव: । धारयन्तु । इन्द्र: । पूषा । वरुण: । मित्र: । अग्नि: ।इमम् ‍ । आदित्या: । उत । विश्वे । च । देवा: । उत्ऽतरस्मिन् । ज्योतिषि । धारयन्तु ॥

अथर्ववेद » काण्ड:1» सूक्त:9» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब सम्पत्तियों के लिये प्रयत्न का उपदेश।

पदार्थान्वयभाषाः - (वसवः) प्राणियों के बसानेवाले वा प्रकाशमान, श्रेष्ठ देवता [अर्थात्] (इन्द्रः) परमेश्वर वा सूर्य, (पूषा) पुष्टि करनेवाली पृथिवी, (वरुणः) मेघ, (मित्रः) वायु और (अग्निः) आग, (अस्मिन्) इस पुरुष में [मुझमें] (वसु) धन को (धारयन्तु) धारण करें। (आदित्याः) प्रकाशवाले [बड़े विद्वान् शूरवीर पुरुष] (उत च) और भी (विश्वे) सब (देवाः) व्यवहार जाननेहारे महात्मा (इमम्) इसको [मुझको] (उत्तरस्मिन्) अति उत्तम (ज्योतिषि) ज्योति में (धारयन्तु) स्थापित करें ॥१॥
भावार्थभाषाः - चतुर पुरुषार्थी मनुष्य के लिये परमेश्वर और संसार के सब पदार्थ उपकारी होते हैं। अथवा जो सूर्य, भूमि, मेघ, वायु और अग्नि के समान उत्तम गुणवाले और दूसरे शूर वीर विद्वान् लोग (आदित्याः) जो विद्या के लिये और धरती अर्थात् सब जीवों के लिये पुत्र समान सेवा करते हैं और जो सूर्य के समान उत्तम गुणों से प्रकाशमान हैं, वे सब नरभूषण पुरुषार्थी मनुष्य के सदा सहायक और शुभचिन्तक रहते हैं ॥१॥
टिप्पणी: १−अस्मिन्। उपासके, मयि, इत्यर्थः। म० ४। वसु। शॄस्वृस्निहित्रप्यसि०। उ० १।१०। इति वस आच्छादने, निवासे दीप्तौ च-उप्रत्ययः। निवासयितृ प्रकाशमानं वा धनम्। वसवः। पूर्ववत्, वस-उ। श्वसोवसीयश्श्रेयसः। पा० ५।४।८०। अत्र वसुशब्दः प्रशस्तवाची। प्राणिनां वासयितारः, प्रकाशमानाः। प्रशस्ता देवाः, इन्द्रादयो मन्त्रोक्ताः। धारयन्तु। धृञ् धारणे चुरादिः। स्थापयन्तु। इन्द्रः। १।२।३। परमेश्वरः। सूर्यः। पूषा। श्वन्नुक्षन्पूषन्०। उ० १।१५९। इति पुष पुष्टौ, पूष वृद्धौ−कनिन् प्रत्ययान्तो निपात्यते। पुष्यति पूषति वा वर्धते धान्यादिभिः, पोषयति वान्नैः प्रजाः। पृथिवीनाम्−निघ० १।१। वरुणः। १।३।३। वृणोति व्रियते वाऽसौ वरुणः। वृष्टिजलम्। मेघः। मित्रः। १।३।२। डुमिञ् प्रक्षेपणे-क्त्र। वायुः। अहरभिमानी देवः−इति सायणः। अग्निः। १।६।२। और्वजाठरवैद्युतादिरूपः प्रकाशः। वह्निः। इमम्। उपासकम्। आदित्याः। अघ्न्यादयश्च। उ० ४।११२। इति आङ्+डुदाञ् दाने, वा दीपी दीप्तौ-यक्। निपातितः। यद्वा। दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। पा० ४।१।८५। इति अदिति-ण्य-प्रत्ययः, अपत्यार्थे। अदितिः=पृथिवी−निघ० १।१। वाक्-निघ० १।११। अदितिरदीना देवमाता−निरु० ४।२२। अथास्य [आदित्यस्य] कर्म रसादानं रश्मिभिश्च रसधारणं यच्च किंचित् प्रबल्हितमादित्यकमैव तच्चन्द्रमसा वायुना संवत्सरेणेति संस्तवः। निरु० ७।११। आदातारः, ग्रहीतारो गुणानाम्। प्रकाशमानाः। भूमिपुत्राः, देशहितैषिणः। सरस्वतीपुत्राः, विद्वांसः। सूर्यवत् तेजस्विनः। देवाः। १।४।३। दिवु व्यवहारे-अच्। व्यवहारिणः। प्रकाशमानाः। उत्-तरस्मिन्। उत्कृष्टे। ज्योतिषि। द्युतेरिसिन्नादेश्च जः। उ० २।११०। इति द्युत दीप्तौ−इसिन्, दस्य जः। तेजसि, प्रकाशे। धारयन्तु। स्थापयन्तु ॥