वांछित मन्त्र चुनें

यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः। तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्ये॑षां शत॒तर्ह॑मग्ने ॥

मन्त्र उच्चारण
पद पाठ

यत्र । एषाम् । अग्ने । जनिमानि । वेत्थ । गुहा । सताम् । अत्त्रिणाम् । जातऽवेद:।तान् । त्वम् । ब्रह्मणा । ववृधान: । जहि । एषाम् । शतऽतर्हम् । अग्ने ॥

अथर्ववेद » काण्ड:1» सूक्त:8» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सेनापति के लक्षण।

पदार्थान्वयभाषाः - (जातवेदः) हे अनेक विद्यावाले वा धनवाले ! (अग्ने) अग्नि [अग्निस्वरूप राजन्] ! (यत्र) जहाँ पर (गुहा) गुफा में (सताम्) वर्त्तमान (एषाम्) इन (अत्रिणाम्) उदरपोषकों के (जनिमानि) जन्मों को (वेत्थ) तू जानता है। (अग्ने) हे अग्निरूप राजन् ! (ब्रह्मणा) वेदज्ञान [वा अन्न वा धन] से (वावृधानः) बढ़ता हुआ (त्वम्) तू (तान्) उनकी और (एषाम्) इनकी (शततर्हम्) सैकड़ों प्रकार की हिंसा को (जहि) नाश कर ॥४॥
भावार्थभाषाः - अग्नि के समान तेजस्वी महाबली राजा गुप्त उपद्रवियों का खोज करे और उनको यथा नीति कड़े-कड़े दण्ड देकर प्रजा में शान्ति रक्खे ॥४॥
टिप्पणी: ४−अग्ने। अग्निवत् तेजस्विन् राजन्। जनिमानि। जनिमृङ्भ्यामिमनिन्। उ० ४।१४९। इति जनी प्रादुर्भावे-इमनिन्। जन्मानि, उत्पत्तिकारणानि। वेत्थ। विद ज्ञाने-लट्। त्वं जानासि। गुहा। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति गुहू संवरणे-क, टाप् च। गूहति रक्षतीति। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। गुहायाम्, गर्त्ते, गह्वरे, गुप्तस्थाने। सताम्। अस सत्तायां-शतृ। विद्यमानानाम्। निवसताम्। अत्रिणाम्। १।७।३। अदनशीलानां, उदरपोषकाणाम्। जात-वेदः। १।७।२। हे जातविद्य ! ब्रह्मणा। बृंहेर्नोऽच्च। उ० ४।१४६। इति बृहि वृद्धौ-मनिन्, नकारस्य अकारः, रत्वं च। ब्रह्म अन्नम्−निघ० २।७। तथा, धनम्−निघ० २।१०। वेदेन। वेदज्ञानेन। परमेश्वरेण। वावृधानः। वृधु वृद्धौ-लिटः कानच्, छन्दसि दीर्घः। प्रवृद्धः। जहि। मं० ३। मारय। शत−तर्हम्। शतं बहुनाम्−निघ० ३।१। तृह हिंसायाम्-घञ्। बहुविधहिंसनम् ॥