वांछित मन्त्र चुनें
455 बार पढ़ा गया

इ॒दं ह॒विर्या॑तु॒धाना॑न्न॒दी फेन॑मि॒वा व॑हत्। य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ॥

मन्त्र उच्चारण
पद पाठ

इदम् । हवि: । याऽतुधानान् । नदी । फेनम्ऽइव । आ । वहत् ।य: । इदम् । स्त्री । पुमान् । अक: । इह । स: । स्तुवताम् । जन: ॥

अथर्ववेद » काण्ड:1» सूक्त:8» पर्यायः:0» मन्त्र:1


पण्डित क्षेमकरणदास त्रिवेदी

सेनापति के लक्षण।

पदार्थान्वयभाषाः - (इदम्) यह (हविः) [हमारी] भक्ति (यातुधानान्) राक्षसों को (आवहत्) ले आवे, (इव) जैसे (नदी) नदी (फेनम्) फेन को। (यः) जिस किसी (पुमान्) मनुष्य ने अथवा (स्त्री) स्त्री ने (इदम्) इस [पापकर्म] को (अकः) किया है (सः जनः) वह पुरुष (स्तुवताम्) [तेरी] स्तुति करे ॥१॥
भावार्थभाषाः - प्रजा की पुकार सुनकर जब राजा दुष्टों को पकड़ता है, अपराधी स्त्री और पुरुष अपने अपराध को अङ्गीकार कर लेते और उस प्रतापी राजा की स्तुति करते हैं ॥१॥ (स्त्री) शब्द का अर्थ संग्रह करने हारी वा स्तुति योग्य और [पुमान्] का अर्थ रक्षक वा पुरुषार्थी है।
टिप्पणी: १−इदम्। प्रस्तुतं, क्रियमाणम्। हविः। १।४।३। दानम्। भक्तिः। आवाहनम्। यातु-धानान्। १।७।१। पीडाप्रदान् राक्षसान्। नदी। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति णद ध्वनौ-पचाद्यच्। गणे नदट् इति पाठात् टित्त्वात्-ङीप्। नदति प्रवाहवेगेन शब्दायत इति। नद्यः कस्मात् नदना भवन्ति शब्दवत्यः−निरु० २।२४। नदनशीला, सरित्, तरङ्गिणी। फेनम्। फेनमीनौ। उ० ३।३। इति स्फायी वृद्धौ-नक्, फेशब्दादेशः। स्फायते वर्धते स फेनः। हिण्डीरम्, समुद्रफेनम्। आ+वहत्। वह प्रापणे-लेट्। आनयेत्। स्त्री। स्त्यायतेर्ड्रट्। उ० ४।१६६। इति स्त्यै संहतौ, ध्वनौ−ड्रट्, ङीप्। स्त्यायति शब्दयति गृहृणाति वा गुणान् सा। यद्वा, ष्टुञ् स्तुतौ-ड्रट्। ङीप्। स्तौति गुणान् वा स्तूयते सा स्त्री। नारी। पुमान्। पातेर्डुमसुन्। उ० ४।१७८। इति पा रक्षणे डुमसुन्। डित्वात् टिलोपः। पातीति पुमान् मनुष्यः, पुरुषः। अकः। डुकृञ् करणे-लुङ्। हल्ङ्याब्भ्यो दीर्घात्०। पा० ६।१।६८। इति ति इत्यस्य इकारलोपे तलोपः। अकार्षीत्। स्तुवताम्। ष्टुञ् स्तुतौ-लोट्। छन्दसि शः। स्तुतिं करोतु। जनः। जनी प्रादुर्भावे, वा जन जनने-अच्। जायते जनयति वा स जनः। लोकः ॥