वांछित मन्त्र चुनें

पश्या॑म ते वी॒र्यं॑ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न्नृचक्षः। त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्ता॒त्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम् ॥

मन्त्र उच्चारण
पद पाठ

पश्याम । ते । वीर्यम् । जातवेद: । प्र । न: । ब्रूहि । यातुधानान् । नृचक्ष:। त्वया । सर्वे । परितप्ता: । पुरस्तात् । ते । आ । यन्तु । प्रब्रुवाणा: । उप । इदम् ॥

अथर्ववेद » काण्ड:1» सूक्त:7» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सेनापति के लक्षण।

पदार्थान्वयभाषाः - (जातवेदः) हे ज्ञान देनेहारे वा बहुत धनवाले राजा ! (ते) तेरे (वीर्यम्) पराक्रम को (पश्याम) हम देखें, (नृचक्षः) हे मनुष्यों के देखने हारे ! (नः) हमें (यातुधानान्) दुःखदायी राक्षसों को (प्रब्रूहि) बता दे। (त्वया) तुझसे (परितप्ताः) जलाये हुए (सर्वे) वह सब (प्रब्रुवाणाः) जय बोलते हुए (पुरस्तात्) [तेरे] आगे (इदम्) इस स्थान में (उप आ यन्तु) चले आवें ॥५॥
भावार्थभाषाः - राजा को योग्य है कि अपने राज्य में विद्याप्रचार करे, सब प्रजा पर दृष्टि रक्खे और उपद्रवियों को अपने आधीन सर्वथा रक्खे कि वह लोग उसकी आज्ञा को सर्वदा मानते रहें ॥५॥
टिप्पणी: ५−पश्याम। दृशिर् प्रेक्षणे-लोट्। पाघ्राध्मास्था०। पा० ७।३।७८। इति शपि पश्यादेशः। अवलोकयाम। वीर्यम्। वीरस्य भावः, वीर-यत्। यद्वा, वीरे साधुः। तत्र साधुः। पा० ४।४।९८। इति यत्। तित् स्वरितम्। पा० ६।१।१८५। इति स्वरितः। पराक्रमम्, सामर्थ्यम्। जात-वेदः। मं० २। हे जातप्रज्ञान। नः। अकथितं च। पा० १।४।५१। इति। कर्मत्वम्। अस्मान् प्रति। प्र+ब्रूहि। ब्रूञ् व्यक्तायां वाचि लोट्, द्विकर्मकः। प्रकथय। यातुधानान्। मं० १। पीडाप्रदान् राक्षसान्। नृचक्षः। चष्टिः पश्यतिकर्मा। निघं० ३।११। चक्षिङ् व्यक्तायां वाचि-असुन्, नॄन् मनुष्यान् चष्टे पश्यतीति नृचक्षाः। हे मनुष्याणां द्रष्टः, अथवा उपदेशक। त्वया। अग्निना, अग्निवत् तेजस्विना। परि-तप्ताः। सम्यग् दग्धाः। पुरस्तात्। अग्ने। ते। प्रसिद्धाः। आ+यन्तु। आगच्छन्तु प्र-ब्रुवाणाः। ब्रूञ्-शानच्। प्रकथयन्तः, जयं प्रलपन्तः। इदम्। दृश्यमानं स्थानम् ॥