वांछित मन्त्र चुनें

अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्या॑णि। इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन्तद्दक्ष॑माणो बिभर॒द्धिर॑ण्यम् ॥

मन्त्र उच्चारण
पद पाठ

अपाम् । तेज: । ज्योति: । ओज: । बलम् । च । वनस्पतीनाम् । उत । वीर्याणि । इन्द्रेऽइव । इन्द्रियाणि । अधि । धारयाम: । अस्मिन् । तत् । दक्षमाण: । बिभरत् । हिरण्यम् ॥

अथर्ववेद » काण्ड:1» सूक्त:35» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सुवर्ण आदि धन प्राप्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (अपाम्) प्राणों वा प्रजाओं के (तेजः) तेज, (ज्योतिः) कान्ति, (ओजः) पराक्रम (च) और (बलम्) बल को (उत) और भी (वनस्पतीनाम्) सेवनीय गुणों के रक्षक विद्वानों की (वीर्याणि) शक्तियों को (अस्मिन् अधि) इस [पुरुष] में (धारयामः) हम धारण करते हैं, (इव) जैसे (इन्द्रे) बड़े ऐश्वर्यवाले पुरुष में (इन्द्रियाणि) इन्द्र के चिह्न, [बड़े-बड़े ऐश्वर्य] होते हैं। [इसलिये] (दक्षमाणः) वृद्धि करता हुआ यह पुरुष (तत्) उस (हिरण्यम्) कमनीय विज्ञान वा सुवर्ण आदि को (बिभ्रत्) धारण करे ॥३॥
भावार्थभाषाः - विद्वानों के सत्सङ्ग से महाप्रतापी, विक्रमी, तेजस्वी, गुणी पुरुष वृद्धि करके विज्ञान और धनसंचय करे और सामर्थ्य बढ़ावे ॥३॥
टिप्पणी: ३−अपाम्। आप्नोतेर्ह्रस्वश्च। उ० २।५८। इति आप्लृ व्याप्तौ−क्विप्। आप्नुवन्ति शरीरमिति आपः। प्राणानाम्। आप्तानां प्रजानां वा। यथा श्रीमद्दयानन्दभाष्ये। आपः=प्राणा जलानि वा। यजुः ४।७। पुनः। आप्ताः प्रजाः। य० ६।२७। तेजः। तिज निशाने−असुन्। दीप्तिः, कान्तिः। रेतः, सारः। ज्योतिः। १।९।१। प्रकाशः, कान्तिः। ओजः। म० २। पराक्रमः। बलम्। म० १ सामर्थ्यम्। शौर्य्यम्। वनस्पतीनाम्। १।१२।३। वन+पतिः, सुट् च। वृक्षाणाम्। अथवा। सेवनीयगुणपालकानां सज्जनानां पालकानाम्। यथा श्रीमद्दयानन्दभाष्ये यजु० २७।२१। वनस्पते =वनस्य संभजनीयस्य शास्त्रस्य पालक। वीर्याणि। १।७।५। सामर्थ्यानि। रेतांसि। इन्द्रे। १।२।३। परमैश्वर्यवति पुरुषे। इन्द्रियाणि। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। पा० ५।२।९३। इन्द्रस्य लिङ्गानि चिह्नानि। परमैश्वर्याणि, धनादीनि। अधि। उपरि। धारयामः। स्थापयामः। अस्मिन्। पुरुषे। तत्। तस्मात् कारणात्। दक्षमाणः। दक्ष वृद्धौ−शानच्। वर्धमानः पुरुषः। बिभरत्। डुभृञ् धारणपोषणयोः−लेट्। धारयेत्, बिभर्तु। हिरण्यम्। म० १। कमनीयं धनम् ॥