290 बार पढ़ा गया
यदाब॑ध्नन्दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः। तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
पद पाठ
यत् । आऽबध्नन् । दाक्षायणा: । हिरण्यम् । शतऽअनीकाय । सुऽमनस्यमाना: । तत् । ते । बध्नामि । आयुषे । वर्चसे । बलाय । दीर्घायुऽत्वाय । शतऽशारदाय ॥
अथर्ववेद » काण्ड:1» सूक्त:35» पर्यायः:0» मन्त्र:1
पण्डित क्षेमकरणदास त्रिवेदी
सुवर्ण आदि धन प्राप्ति के लिये उपदेश।
पदार्थान्वयभाषाः - (यत्) जिस (हिरण्यम्) कामनायोग्य विज्ञान वा सुवर्णादि को (दाक्षायणाः) बल की गति रखनेवाले, परम उत्साही (सुमनस्यमानाः) शुभचिन्तकों ने (शतानीकाय) सौ सेनाओं के लिये (अबध्नन्) बाँधा है। (तत्) उसको (आयुषे) लाभ के लिये, (वर्चसे) यश के लिये, (बलाय) बल के लिये और (शतशारदाय) सौ शरद् ऋतुओंवाले (दीर्घायुत्वाय) चिरकाल जीवन के लिये (ते) तेरे (बध्नामि) मैं बाँधता हूँ ॥१॥
भावार्थभाषाः - जिस प्रकार कामनायोग्य उत्तम विज्ञान और धन आदि से दूरदर्शी, शुभचिन्तक, शूरवीर विद्वान् लोग बहुत सेना लेकर रक्षा करते हैं, उसी प्रकार सब मनुष्य विज्ञान और धन की प्राप्ति से संसार में कीर्त्ति और सामर्थ्य बढ़ावें और अपना जीवन सुफल करें ॥१॥ यह मन्त्र कुछ भेद से यजुर्वेद में है। अ० ३४ म० ५२ ॥
टिप्पणी: १−यत्। हिरण्यम्। आ। समन्तात्। अबध्नन्। बन्ध बन्धने−लङ्। अधारयन्, अस्थापयन्। दाक्षायणाः। दक्ष−अयनाः। दक्ष वृद्धौ−अच्। दक्षते प्रवृद्धये समर्थो भवतीति। दक्षः, बलम्। निघ० २।९। अय गतौ−ल्युट्। अयनं गतिः। पूर्वपददीर्घत्वं छान्दसम्। दक्षस्य बलस्य अयनं गतिर्येषां ते दाक्षायणाः। परमोत्साहिनः शूरवीरा विद्वांसो वा। हिरण्यम्। १।९।२। कमनीयं विज्ञानम्। सुवर्णादिकं धनम्। शत-अनीकाय। दिक्संख्ये संज्ञायाम्। पा० २।१।५०। इति तत्पुरुषः। शत सेनाप्राप्तये। सु-मनस्यमानाः। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति मनस्−क्यङ्, विकल्पत्वादत्र सकारभावः, ततो लटः शानच्। शोभनं मनः कुर्वन्ते सुमनस्यन्ते सुमनायन्ते वा ते सुमनस्यमानाः, शोभनं ध्यायन्तः शुभचिन्तकाः सज्जनाः। बध्नामि। बन्ध बन्धने−क्र्यादि। धारयामि। आयुषे। १।३०।३। ईयते प्राप्यते यत्तद् आयुः। आयाय, लाभाय। वर्चसे। १।९।४। तेजसे, यशसे। बलाय। १।१।१। पराक्रमाय। दीर्घायु-त्वाय। दॄ विदारणे−घञ्। छन्दसीणः। उ० १।२। इति इण् गतौ−उण्−आयुः। भावे त्व प्रत्ययः। लम्बमानजीवनाय, चिरकालजीवनाय। शत−शारदाय। सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्। पा० ४।३।१६। इति शरद्−अण्। शरदृतोः संबन्धी कालः संवत्सरः। शतसंवत्सरयुक्ताय ॥
