वांछित मन्त्र चुनें

यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः। ए॒वा ते॒ मूत्रं॑ मुच्यतां बहि॒र्बालिति॑ सर्व॒कम् ॥

मन्त्र उच्चारण
पद पाठ

यथा । इषुका । पराऽअपतत् । अवऽसृष्टा । अधि । धन्वन: ।एव । ते । मूत्रम् । मुच्यताम् । बहि: । बाल् । इति । सर्वकम् ॥३.९॥

अथर्ववेद » काण्ड:1» सूक्त:3» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शान्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसे (धन्वनः अधि) धनुष् से (अवसृष्टा) छुटा हुआ (इषुका) बाण (परा-अपतत्) शीघ्र चला गया हो। (एव) वैसे ही (ते) तेरा (मूत्रम्) मूत्ररूप (बाल्) वैरी (बहिः) बाहिर (मुच्यताम्) निकाल दिया जावे (इति सर्वकम्) यह बस है ॥९॥
भावार्थभाषाः - सरल है, ऊपर के, मन्त्र देखो ॥९॥
टिप्पणी: ९−इषुका। इषुरीषतेर्गतिकर्मणो वधकर्मणो वा। निरु० ९।१८। इति ईष गतौ वधे−उ प्रत्ययः। स्वार्थे-कन्, टाप्। इषुः, वाणः। परा-अपतत्। पत गतौ−लङ्। शीघ्रं दूरे अगच्छत्। अवसृष्टा। सृज−विसर्गे-क्त। विमुक्ता। अधि। पञ्चम्यर्थानुवादी। धन्वनः। कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः। उ० १।१५६। इति धन्व गतौ−कनिन्। धनुषः सकाशात्, चापात्। शेषं पूर्ववत् मं० ६ ॥