वांछित मन्त्र चुनें

प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व। ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥

मन्त्र उच्चारण
पद पाठ

प्र । ते । भिनद्मि । मेहनम् । वर्त्रम् । वेशन्त्याःऽइव । एव । ते । मूत्रम् । मुच्यताम् । बहिः । बाल् । इति । सर्वकम् ॥

अथर्ववेद » काण्ड:1» सूक्त:3» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शान्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (ते) तेरे (मेहनम्) मूत्रद्वार को (प्रभिनद्मि) मैं खोले देता हूँ, (इव) जैसे (वेशन्त्याः) झील का पानी (वर्त्रम्) बन्ध को [खोल देता है]। (एव), वैसे ही.... म. ६ ॥७॥
भावार्थभाषाः - जैसे सद्वैद्य लोह शलाका से रोगी के रुके हुए मूत्र को झील के पानी के समान खोलकर निकाल देता है, वैसे ही मनुष्य अपने शत्रु को निकाल देवे ॥७॥
टिप्पणी: ७−प्र+भिनद्मि। भिदिर् विदारणे−लट्। व्यवहिताश्च। पा० १।४।८२। इति उपसर्गस्य व्यवधानम्। विवृणोमि, विवृतं करोमि। मेहनम्। मिह सेचने करणे ल्युट्। मेहति सिञ्चति मूत्रम्। मूत्रमार्गम्। वर्त्रम्। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। वृतु वर्तने-ष्ट्रन्। बन्धम्। वेशन्त्याः। जॄविशिभ्यां झच्। उ० ३।१२६। इति विश प्रवेशे-झच्। झोऽन्तः। पा० ७।१।३। इति झस्य अन्तादेशः, वेशन्तः जलाशयः। भवे छन्दसि। पा० ४।४।११०। इति यत्। वेशन्ते सरोवरे भवा आपः। अन्यत् पूर्ववत् मं० ६ ॥