वांछित मन्त्र चुनें

वि॒द्मा श॒रस्य॑ पि॒तरं॑ च॒न्द्रं श॒तवृ॑ष्ण्यम्। तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥

मन्त्र उच्चारण
पद पाठ

विद्म । शरस्य । पितरम् । चन्द्रम् । शतऽवृष्ण्यम् ।तेन । ते । तन्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः । ते । अस्तु । बाल् । इति ॥

अथर्ववेद » काण्ड:1» सूक्त:3» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शान्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक (वा बाणधारी) शूर के (पितरम्) रक्षक, पिता (चन्द्रम्) आनन्द देनेवाले, चन्द्रमारूप उपकारी (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर को] (विद्म) हम जानते हैं। (तेन) उस [ज्ञान] से.... ॥४॥
भावार्थभाषाः - (चन्द्र) आनन्द देनेवाला अर्थात् अपनी किरणों से अन्न आदि औषधों को पुष्ट करके प्राणियों को बल देता है। उस चन्द्रमा का भी आह्लादक वह परमेश्वर है, ऐसा ही मनुष्य को आनन्द देनेवाला होना चाहिये ॥४॥
टिप्पणी: ४−चन्द्रम्। स्फायितञ्चीत्यादिना, उ० २।१३। इति चदि आह्लादने-रक्। चन्द्रश्चन्दतेः कान्तिकर्मणः निरु० ११।५। आह्लादकं देवं, हिमांशुम्। इन्दुम्। तद्वत् उपकारकम्। अन्यत्−यथा मं० १ ॥