वांछित मन्त्र चुनें

वि॒द्मा श॒रस्य॑ पि॒तरं॑ मि॒त्रं श॒तवृ॑ष्ण्यम्। तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥

मन्त्र उच्चारण
पद पाठ

विद्म । शरस्य । पितरम् । मित्रम् । शतऽवृष्ण्यम् । तेन । ते । तन्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः । ते । अस्तु । बाल् । इति ॥

अथर्ववेद » काण्ड:1» सूक्त:3» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शान्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक शूर [वा बाणधारी] के (पितरम्) रक्षक पिता, (मित्रम्) सबके चलानेवाले [वा स्नेहवान्] वायुरूप (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर] का (विद्म) हम जानते हैं। तेन उस [ज्ञान] से...... ॥२॥
भावार्थभाषाः - जैसे वायु सब प्राणियों के जीवन का आधार है, वैसे ही परमेश्वर वायु का भी प्राण है इत्यादि ॥२॥ सायणभाष्य में (मित्र) शब्द का अर्थ दिन का अभिमानी देवता है ॥
टिप्पणी: २−मित्रम्। अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। इति डुमिञ् प्रक्षेपणे−क्त्र। मिनोति प्रेरयति वृष्टिं अन्यपदार्थान् चेति मित्रः, यद्वा मिद स्नेहे-त्र। सर्वप्रेरकः। स्नेहवान्। वायुः। वायुवत् उपकारकम्। मित्रशब्दो भगवता यास्केन मध्यस्थानदेवतासु पठितः−निरु० १०।२१-२२। अहरभिमानी देवो मित्रः−इति सायणः। वायुम्। दिनकालम्। शेषं पूर्ववद् योज्यम्, मन्त्रे १ ॥