पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्य॑म्। अधा॑ मि॒थो वि॑के॒श्यो॑३ वि घ्न॑तां यातुधा॒न्यो॑३ वि तृ॑ह्यन्तामरा॒य्यः॑ ॥
पद पाठ
पुत्रम् । अत्तु । यातुऽधानी: । स्वसारम् । उत । नप्त्यम् । अध । मिथ: । विऽकेश्य: । वि । घ्नताम् । यातुऽधान्य: । वि । तृह्यन्ताम् । अराय्य: ॥
अथर्ववेद » काण्ड:1» सूक्त:28» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
युद्ध का प्रकरण।
पदार्थान्वयभाषाः - (यातुधानीः=०-नीः) दुःखदायिनी, [शत्रुसेना] (पुत्रम्) [अपने] पुत्र को, (स्वसारम्) भली-भाँति काम पूरा करनेहारी बहिन को (उत) और (नप्त्यम्=नप्त्रीम्) नातिनी वा धेवती को (अत्तु) खा लेवे अर्थात् नष्ट करे। (अध) और (विकेश्यः) केश बिखेरे हुए वह सब [सेनाएँ] (मिथः) आपस में (विघ्नताम्) मर मिटें और (अराय्यः) दान अर्थात् कर न देनेहारी (यातुधान्यः) दुःख पहुँचानेहारी [शत्रुप्रजाएँ] (वितृह्यन्ताम्) विविध प्रकार के दुःख उठावें ॥४॥
भावार्थभाषाः - चतुर सेनापति राजा अपनी बुद्धिबल से दुष्ट शत्रुसेना में हलचल मचा दे कि वह सब घबराकर आपस में कट-मर कर एक दूसरे को सताने लगें और जो प्रजागण हठ दुराग्रह करके, कर आदि न देवें, उनको दण्ड देकर वश में कर लेवे ॥४॥ तीनों संहिताओं में (यातुधानीः) सविसर्ग पाठ लेखप्रमाद दीखता है। सायणभाष्य में (यातुधानी) विसर्गरहित व्याख्यात है, वह (अत्तु) क्रिया के संबन्ध में ठीक है ॥ इति पञ्चमोऽनुवाकः ॥
टिप्पणी: ४−पुत्रम्। १।११।५। स्वसुतम्। यातु-धानीः। म० २। प्रथमैकवचनं छन्दसि यथा श्रीः। यातुधानी, दुःखप्रदा, शत्रुसेना। स्वसारम्। सावसेर्ऋन्। उ० २।९६। इति सु+असु क्षेपणे−ऋन्। सुष्ठु अस्यति समाप्नोति कार्याणि सा स्वसा। भगिनीम्। उत। अपि च। नप्त्यम्। नप्तृनेष्टृत्वष्टृहोतृ० उ० २।९५। इति न+पत अधोगमने-तृच्। न पतति वंशो यस्मात् स नप्ता। ऋन्नेभ्यो ङीप्। पा० ४।१।५। इति नप्तृशब्दात् ङीप्। वा छन्दसि। पा० ६।१।१०६। इति पूर्वरूपस्य विकल्पाद् यणादेशः। नप्त्रीम्, पौत्रीं दौहित्रीं वा। अध। थस्य धः। अथ, अनन्तरम्। मिथः। मिथ वधे, मेधायाम्−असुन्, पृषोदरादित्वाद् ह्रस्वः। अन्योऽन्यम् परस्परम्। वि-केश्यः। स्वाङ्गाच्चोपसर्जनादसं०। पा० ४।१।५४। इति विकेश-ङीप्। विकीर्णकेशयुक्ताः परस्परताडनेन। वि। विविधम्। घ्नताम्। हन हिंसागत्योः−लोटि बहुवचने। हन्यन्ताम्। म्रियन्ताम्। यातुधान्यः। म० १। पीडाप्रदाः शत्रुसेनाः। तृह्यन्ताम्। तृह हिंसायाम्−कर्मणि लोट्। हिंस्यन्ताम्। अराय्यः। रा दाने−घञ् युक् आगमः, ङीप्। अदानशीलाः प्रजाः ॥
