वांछित मन्त्र चुनें

अपे॑न्द्र द्विष॒तो मनो॑ ऽप॒ जिज्या॑सतो व॒धम्। वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम् ॥

मन्त्र उच्चारण
पद पाठ

अप । इन्द्र । द्विषत: । मन: । अप । जिज्यासत: । वधम् ।वि । महत् । शर्म । यच्छ । वरीय: । यवय । वधम् ॥

अथर्ववेद » काण्ड:1» सूक्त:21» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजनीति और शान्तिस्थापन का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे बड़े ऐश्वर्यवाले राजन् (द्विषतः) वैरी के (मनः) मन को (अप=अपकृत्य) तोड़कर और (जिज्यासतः) [हमारी] आयु की हानि चाहनेहारे शत्रु के (वधम्) प्रहार को (अप=अपकृत्य) छिन्न-भिन्न करके (महत् शर्म) [अपना] विस्तीर्ण शरण (वियच्छ) [हमें] दान कर और (वधम्) [शत्रु के] प्रहार को (वरीयः) बहुत दूर (यावय) फेंक दे ॥४॥
भावार्थभाषाः - परमेश्वर के विश्वास से मनुष्य अपने पुरुषार्थ और बुद्धिबल से शत्रु को निरुत्साही करके विजयी होवें ॥४॥
टिप्पणी: टिप्पणी−पिछले आधे मन्त्र के लिये १।२०।३। देखो ॥ इति चतुर्थोऽनुवाकः ॥ ४−अप। अपकृत्य, तिरस्कृत्य। द्विषतः। द्विष अप्रीतौ−शतृ। अप्रीतिकरस्य शत्रोः। मनः। १।१।२। अन्तःकरणं हृदयम् आत्मबलम्। जिज्यासतः। धातोः कर्मणः समानकर्तृकादिच्छायां वा। पा० ३।१।७। इति ज्या वयोहानौ−सन् प्रत्ययः। सन्यङोः। पा० ६।१।९। इति द्विर्वचने हलादिः शेषे ह्रस्वे च कृते। सन्यतः। पा० ७।४।७८। इति अभ्यासाकारस्य इत्वम्। सन्नन्तस्य धातुसंज्ञायां लटः शतृ। वयोहानिमिच्छतः, अस्मान् जेतुमिच्छतः पुरुषस्य। वधम्। १।२०।१। प्रहारम्। अन्यद् व्याख्यातम्। १।२०।३ ॥