वांछित मन्त्र चुनें

वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्फु॒रं श॒रमर्च॑न्त्यृ॒भुम्। शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ॥

मन्त्र उच्चारण
पद पाठ

वृक्षम् । यत् । गावः । परिऽसखजानाः । अनुऽस्फुरम् । शरम् । अर्चन्ति । ॠभुम् । शरुम् । अस्मत् । यवय । दिद्युम् । इन्द्र ॥

अथर्ववेद » काण्ड:1» सूक्त:2» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

बुद्धि की वृद्धि के लिये उपदेश।

पदार्थान्वयभाषाः - (यत्) जब (वृक्षम्) धनुष से (परि-सस्वजानाः) लिपटी हुयी (गावः) चिल्ले की डोरियाँ (अनुस्फुरम्) फुरती करते हुए (ऋभुम्) विस्तीर्ण ज्योतिवाले अथवा सत्य से प्रकाशमान वा वर्त्तमान, बड़े बुद्धिमान् (शरम्) बाणधारी शूरपुरुष की (अर्चन्ति) स्तुति करें। [तब] (इन्द्र) हे बड़े ऐश्वर्यवाले जगदीश्वर ! [वा हे वायु !] (शरुम्) वाण और (दिद्युम्) वज्र को (अस्मत्) हमसे (यावय) तू अलग रख ॥३॥
भावार्थभाषाः - जब दोनों ओर से (आध्यात्मिक वा आधिभौतिक) घोर संग्राम होता हो, बुद्धिमान् चतुर सेनापति ऐसा साहस करे कि सब योद्धा लोग उस की बड़ाई करें और वह परमेश्वर का सहारा लेकर और अपने प्राण वायु को साधकर शत्रुओं को निरुत्साह कर दे और जय प्राप्त करके आनन्द भोगे ॥३॥ निरुक्त अध्याय २, खण्ड ६ और ५ के अनुसार (वृक्ष) का अर्थ [धनुष] इस लिये है कि उससे शत्रु छेदा जाता है और (गौ) का नाम चिल्ला इसलिये है कि उससे वाणों को चलाते हैं ॥
टिप्पणी: ३−वृक्षम्। स्नुव्रश्चिकृत्यिषिभ्यः कित्। उ० ३।६६। इति ओव्रश्चू छेदने-क्स प्रत्ययः। वृक्षे वृक्षे धनुषि धनुषि वृक्षो व्रश्चनात्−निरु० २।६। धनुर्दण्डम्। धनुः। यत्। यदा। गावः। गमेर्डोः। उ० २।६७। इति गम्लृ गतौ-डो। ज्यापि गौरुच्यते गव्या चेत् ताद्धितमथ चेन्न गव्या गमयतीषूनिति−निरु० २।५। ज्याः, मौर्व्यः। परि-सस्वजानाः। ष्वञ्ज परिष्वङ्गे, लिटः कानच्, नकारलोपे द्विर्वचनम्। आश्लिष्य धनुष्कोटौ आरोपिताः। अनु-स्फुरम्। स्फुर संचलने-घञर्थे कविधानम्। प्रतिस्फुरणम्, स्फूर्तियुक्तम्। शरम्। मं० १। शत्रुछेदकम्। वाणधारकं शूरम्। अर्चन्ति। पूजयन्तिः, स्तुवन्ति। ऋभुम्। ऋ गतौ−क्विप्। ऋकारः=उरु वा ऋतम्। ऋ+भा दीप्तौ वा भू सत्तायाम्-डु। यद्वा, उरुशब्दस्य ऋतशब्दस्य वा ऋकार आदेशः। ऋभव उरु भान्तीति वर्त्तेन भान्तीति वर्त्तेन भवन्तीति वा−निरु० ११।१५। ऋभुः=मेधावी−निघ० ३।१५। उरुभासनम्, ऋतेन सत्येन भान्तं भवन्तं वा। मेधाविनम्। शरुम्। श्रॄस्वृस्निहि० उ० १।१०। इति श्रॄ हिंसायाम्−उ प्रत्ययः। छेदकं वाणम्। अस्मत्। अस्मत्तः। यवय। यु मिश्रणामिश्रणयोः−णिच्-लोट्। पृथक्कुरु। दिद्युम्। द्युतिगमिजुहोतां द्वे च। वार्त्तिकम्। पा० ३।२।१७८। इति द्युत दीप्तौ−क्विप्। द्योतते उज्ज्वलत्वात्। अथवा दो अवखण्डने-क्विप्। द्यति खण्डयति शत्रून्। पृषोदरादिः। तलोपश्छान्दसः। दिद्युत्, वज्रः, निघ० २।२०। वज्रम्। इन्द्र। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति इदि परमैश्वर्ये−रन्। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति नित्त्वाद् आद्युदात्तत्वे प्राप्ते आमन्त्रितत्वात् सर्वानुदात्तत्वम्। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। पा० ५।२।९३। वायुर्वेन्द्रो वान्तरिक्षस्थानः−निरु०।७।५। हे परमैश्वर्यवन्, वायो, हे जीव ॥