वांछित मन्त्र चुनें
1644 बार पढ़ा गया

वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भूरि॑धायसम्। वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम् ॥

मन्त्र उच्चारण
पद पाठ

विद्म । शरस्य । पितरम् । पर्जन्यम् । भूरिऽधायसम् ।विद्मो इति । सु । अस्य । मातरम् । पृथिवीम् । भूरिऽवर्पसम् ॥

अथर्ववेद » काण्ड:1» सूक्त:2» पर्यायः:0» मन्त्र:1


पण्डित क्षेमकरणदास त्रिवेदी

बुद्धि की वृद्धि के लिये उपदेश।

पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक [बाणधारी] शूर पुरुष के (पितरम्) रक्षक, पिता, (पर्जन्यम्) सींचनेवाले मेघरूप (भूरिधायसम्) बहुत प्रकार से पोषण करनेवाले [परमेश्वर] को (विद्म) हम जानते हैं। (अस्य) इस शूर की (मातरम्) माननीया माता, (पृथिवीम्) विख्यात वा विस्तीर्ण पृथिवीरूप (भूरिवर्पसम्) अनेक वस्तुओं से युक्त [ईश्वर] को (सु) भली-भाँति (विद्म उ) हम जानते ही हैं ॥१॥
भावार्थभाषाः - जैसे मेघ, जल की वर्षा करके और पृथ्वी, अन्न आदि उत्पन्न करके प्राणियों का बड़ा उपकार करती है, वैसे ही वह जगदीश्वर परब्रह्म सब मेघ, पृथ्वी आदि लोक-लोकान्तरों का धारण और पोषण नियमपूर्वक करता है। जितेन्द्रिय शूरवीर विद्वान् पुरुष उस परब्रह्म को अपने पिता के समान रक्षक और माता के समान माननीय और मानकर्त्ता जानकर (भूरिधायाः) अनेक प्रकार से पोषण करनेवाला और (भूरिवर्पाः) अनेक वस्तुओं से युक्त होकर परोपकार में सदा प्रसन्न रहे ॥१॥
टिप्पणी: १−विद्म। विद ज्ञाने-लट्। अदादित्वात् शपो लुक्। द्व्यचोऽतस्तिङः। पा० ६।१।१३५। इति सांहितिको दीर्घः। वयं जानीमः। शरस्य। शृणाति शत्रून्। ॠदोरप्। पा० ३।३।५७। इति श्रॄ हिंसायाम्-अप्। शत्रुनाशकस्य बाणस्य। अथवा, शरो बाणः तदस्यास्ति। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति मत्वर्थे अच्। बाणवतः शूरपुरुषस्य। पितरम्। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति पा रक्षणे-तृन् वा तृच् निपातनात् साधुः। रक्षकम्। जनकम्। पर्जन्यम्। पर्षति सिञ्चति वृष्टिं करोतीति पर्जन्यः। पर्जन्यः। उ० ३।१०३। इति पृषु सेचने-अन्य प्रत्ययः, षस्य जकारः। पर्जन्यस्तृपेराद्यन्तविपरीतस्य तर्पयिता जन्यः परो जेता वा जनयिता वा प्रार्जयिता वा रसानाम्-निरु० १०।१०। सेचकम्। मेघम्। मेघवद् उपकर्त्तारम्। भूरि-धायसम्। वहिहाधाभ्यश्छन्दसि। उ० ४।२२१। इति भूरि+डुधाञ् धारणपोषणयोः दाने च-असुन्, स च णित्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। बहुपदार्थधारयितारं सृष्टेः पोषयितारं परमेश्वरं विद्मो इति। विद्म-उ। वयं जानीम एव। सु। सुष्ठु। अस्य। शरस्य। मातरम्। मान्यते पूज्यते सा माता। नप्तृनेष्टृत्वष्टृ। उ० २।९५। इति मान पूजायाम्-तृन् वा तृच् निपातः। माननीयाम्। जननीम्। पृथिवीम्। १।३०।३। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८। इति प्रथ प्रख्याने-कु। वोतो गुणवचनात्। पा० ४।१।४४। इति। पृथु-ङीप्। विस्तीर्णा प्रख्याता वा पृथिवी। अथवा, प्रथते विस्तीर्णा भवतीति पृथिवी। प्रथेः षिवन्षवन्ष्वनः संप्रसारणं च। उ० १।१५०। इति प्रथ ख्यातौ विस्तारे-षिवन्, संप्रसारणं च। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीप्। भूमिम्। भूमिवद् गुणवन्तम्। भूरिवर्पसम्। ध्रियते स्वीक्रियते तत्। वर्पो रूपम्-निघ० ३।७। वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च। उ० ४।२०१। इति वृङ् स्वीकरणे−असुन्, पुट् आगमः। भूरीणि बहूनि रूपाणि वस्तूनि यस्मिन् स भूरिवर्पाः। अनेकवस्तुयुक्तं परमेश्वरम् ॥