यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥
पद पाठ
य: । सऽपत्न: । य: । असपत्न: । य: । च । द्विषन् । शपाति । न: । देवा: । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥
अथर्ववेद » काण्ड:1» सूक्त:19» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
जय और न्याय का उपदेश।
पदार्थान्वयभाषाः - (यः) जो पुरुष (सपत्नः) प्रतिपक्षी और (यः) जो (असपत्नः) प्रकट प्रतिपक्षी नहीं है (च) और (यः) जो (द्विषन्) द्वेष करता हुआ (नः) हमको (शपाति) कोसे [क्रोशे]। (सर्वे) सब (देवाः) विजयी महात्मा (तम्) उसको (धूर्वन्तु) नाश करें, (ब्रह्म) परमेश्वर, (वर्म) कवचरूप (मम) मेरे (अन्तरम्) भीतर है ॥४॥
भावार्थभाषाः - छान-बीन करके प्रकट और अप्रकट प्रतिपक्षियों और अनिष्टचिन्तकों को (देवाः) शूरवीर विद्वान् महात्मा नाश कर डालें। वह परब्रह्म सर्वरक्षक, कवचरूप होकर, धर्मात्माओं के रोम-रोम में भर रहा है, वही आत्मबल देकर युद्धक्षेत्र में सदा उनकी रक्षा करता है ॥४॥ मन्त्र का उत्तरार्ध ऋ० ६।७५।१९। है ॥
टिप्पणी: ४−सपत्नः। १।९।२। प्रतियोगी, शत्रुः। असपत्नः। अशत्रुः, अप्रकटशत्रुः। द्विषन्। द्विष अप्रीतौ-शतृ। द्वेषं कुर्वन्। शपाति। शप आक्रोशे लेट्। शपेत्। देवाः। दीप्यमानाः। विजयिनः। शूराः। धूर्वन्तु। धुर्वी हिंसायाम्। हिंसन्तु। नाशयन्तु। ब्रह्म। १।१०।४। परमेश्वरः। वर्म। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति वृञ्−मनिन् वृणोति आच्छादयति शरीरमिति। तनुत्रम्, सर्वथा रक्षकम्। अन्तरम्। यदन्ते समीपे रमते। अन्त+रम−ड। अन्तरात्मा। आभ्यन्तरं मध्ये भवम् ॥
