यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति। रु॒द्रः श॑र॒व्य॑यै॒तान्ममा॒मित्रा॒न्वि वि॑ध्यतु ॥
पद पाठ
य: । न :। स्व: । य: । अरण: । सऽजात: । उत । निष्ट्य: । य: । अस्मान् । अभिऽदासति ।रुद्र: । शरव्यया । एतान् । मम । अमित्रान् । वि । विध्यतु ॥
अथर्ववेद » काण्ड:1» सूक्त:19» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
जय और न्याय का उपदेश।
पदार्थान्वयभाषाः - (यः) जो (नः) हमारी (स्वः) जातिवाला अथवा (यः) जो (अरणः) न बोलनेयोग्य शत्रु वा विदेशी, अथवा (सजातः) कुटुम्बी (उत) अथवा (यः) जो (निष्ट्यः) वर्णसङ्कर नीच (अस्मान्) हम पर (अभिदासति) चढ़ाई करे (रुद्रः) शत्रुओं को रुलानेवाला महाशूर वीर सेनापति (शरव्यया) वाणों के समूह से (मम) मेरे (एतान्) इन (अमित्रान्) पीडा देनेहारे वैरियों को (विविध्यतु) छेद डाले ॥३॥
भावार्थभाषाः - राजा को अपने और पराये का पक्षपात छोड़ कर दुष्टों को यथोचित दण्ड देकर राज्य में शान्ति रखनी चाहिये ॥३॥ इस मन्त्र का पूर्वार्ध ऋ० ६।७५।१९ में कुछ भेद से है ॥३॥
टिप्पणी: ३−स्वः। स्वन शब्दे−ड। ज्ञातिः। अरणः। वशिरण्योरप्युपसंख्यानम्। वार्तिकम्, पा० ३।३।५८। इति रण शब्दे-कर्मणि अप्। नञ्समासः। अरणीयः, असंभाष्यः। विदेशी जनः। शत्रुः। सजातः। १।९।३। समान-जन्मा, स्वकुटुम्बी। निष्ट्यः। अव्ययात् त्यप्। पा० ४।२।१०४। अत्र। निसो गते। इति वार्तिकेन। निस्-त्यप् गतार्थे। ह्रस्वात् तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। निर्गतो वर्णाश्रमेभ्यो यः। चाण्डालः, म्लेच्छः। अस्मान्। आज्ञाकारिणो धार्मिकान्। अभिदासति। दसु उत्क्षेपे, लेट् उत्क्षिपेत्। अस्माँ अभिदासति। दीर्घादटि समानपादे। पा० ८।३।९। इति संहितायां नकारस्य रुत्वम्। आतोऽटि नित्यम्। पा० ८।३।३। इति आकारस्य अनुनासिकः। रुद्रः। रोदेर्णिलुक् च। उ० २।२२। इति रुदिर् अश्रुविमोचने, ण्यन्ताद् रक् प्रत्ययः, णिलुक् च। रोदयति शत्रूनिति। महाशूरः। सेनापतिः। शरव्यया। म० १। पाशादिभ्यो यः। पा० ४।२।४९। इति शरु−य प्रत्ययः समूहार्थे। ओर्गुणः। पा० ६।४।१४६। इति गुणः। वान्तो यि प्रत्यये। पा० ६।१।७९। इति अव् आदेशः। टाप् च्। इति शरव्या तया शरसंहत्या। अमित्रान्। म० २। हिंसकान् शत्रून्। विध्यतु। म० २। विशेषेण छिनत्तु भिनत्तु ॥
