वांछित मन्त्र चुनें

यत्त॑ आ॒त्मनि॑ त॒न्वां॑ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा। सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ॥

मन्त्र उच्चारण
पद पाठ

यत् । ते । आत्मनि । तन्वाम् । घोरम् । अस्ति । यत् । वा । केशेषु । प्रतिऽचक्षणे । वा। सर्वम् । तत् । वाचा । अप । हन्म: । वयम् । देव: । त्वा । सविता । सूदयतु ॥

अथर्ववेद » काण्ड:1» सूक्त:18» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के लिये धर्म का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य] ! (यत्) जो कुछ (ते) तेरे (आत्मनि) आत्मा में और (तन्वाम्) शरीर में (वा) अथवा (यत्) जो कुछ (केशेषु) केशों में (वा) अथवा (प्रतिचक्षणे) दृष्टि में (घोरम्) भयानक (अस्ति) है। (वयम्) हम (तत् सर्वम्) उस सबको (वाचा) वाणी से [विद्याबल से] (अप) हटाकर (हन्मः) मिटाये देते हैं। (देवः) दिव्यस्वरूप (सविता) सर्वप्रेरक परमेश्वर (त्वा) तुझको (सूदयतु) अङ्गीकार करे ॥३॥
भावार्थभाषाः - जब मनुष्य अपने आत्मिक और शारीरिक दुर्गुणों और दुर्लक्षणों को विद्वानों के उपदेश और सत्सङ्ग से छोड़ देता है, परमेश्वर उसे अपना करके अनेक सामर्थ्य देता और आनन्दित करता है ॥३॥
टिप्पणी: ३−आत्मनि। सातिभ्यां मनिन्मनिणौ। उ० ४।१५३। इति अत सातत्यगमने−मनिण्। अतति निरन्तरं कर्मफलानि प्राप्नोतीति आत्मा। स्वभावे, मनसि, जीवे। तन्वाम्। १।१।१। शरीरे, देहे। घोरम्। हन्तेरच् घुर च। उ० ५।६४। इति हन बधे−अच्, घुरादेशः। हन्ति विनाशयतीति। भयंकरं दुर्लक्षणम्। केशेषु। के मस्तके शेते। शीङ् शयने−अच्। अलुक्-समासः। अथवा। क्लिशेरन् लो लोपश्च। उ० ५।३३। इति क्लिश उपतापे−अन्, ल लोपः। वालेषु, शिरोरुहेषु। प्रति-चक्षणे। चष्टे, पश्यतिकर्मा−निघ० ३।११। चक्षिङ् कथने, दर्शने च-करणे ल्युट्। दर्शनसाधने चक्षुषि। वाचा। १।१।१। वाण्या। सरस्वतीद्वारा। विद्याद्वारा। अप। वर्जयित्वा। हन्मः। नाशयामः। वयम्। उपासकाः। त्वा। त्वाम् आत्मानम्। सविता। सर्वप्रेरकः। सर्वपिता परमात्मा। सूदयतु। षूद आश्रुतिहत्योः−लोट्, आश्रुतिरङ्गीकारः। आशृणोतु, अङ्गीकरोतु ॥