वांछित मन्त्र चुनें
257 बार पढ़ा गया

निर्ल॒क्ष्म्यं॑ लला॒म्यं॑१ निररा॑तिं सुवामसि। अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ॥

मन्त्र उच्चारण
पद पाठ

‍नि: । लक्ष्म्यम् । ललाम्यम् । नि: । अरातिम् । सुवामसि ।अथ । या । भद्रा । तानि । न: । प्रऽजायै । अरातिम् । नयामसि ॥

अथर्ववेद » काण्ड:1» सूक्त:18» पर्यायः:0» मन्त्र:1


पण्डित क्षेमकरणदास त्रिवेदी

राजा के लिये धर्म का उपदेश।

पदार्थान्वयभाषाः - (ललाम्यम्=०-मीम्) [धर्म से] रुचि हटानेवाली (निर्लक्ष्म्यम्=०-क्ष्मीम्) अलक्ष्मी [निर्धनता] और (अरातिम्) शत्रुता को (निः सुवामसि=०-मः) हम निकाल देवें। (अथ) और (या=यानि) जो (भद्रा=भद्राणि) मङ्गल हैं (तानि) उनको (नः) अपनी (प्रजायै) प्रजा के लिये (अरातिम्) सुख न देनेहारे शत्रु से (नयामसि=०-मः) हम लावें ॥१॥
भावार्थभाषाः - राजा अपने और प्रजा की निर्धनता आदि दुर्लक्षणों को मिटावे और शत्रु को दण्ड देकर प्रजा में आनन्द फैलावे ॥१॥ सायणभाष्य में (लक्ष्म्यम्) के स्थान में [लक्ष्यम्] पाठ है ॥१॥
टिप्पणी: १−निः+लक्ष्म्यम्। नॄ नये−क्विप्। ॠत इद्धातोः। पा० ७।१।१००। इति धातोरङ्गस्य इत्। इति निर्। लक्षेर्मुट् च। उ० ३।१६०। इति लक्ष दर्शनाङ्कनयोः−ई प्रत्ययो मुडागमः। लक्ष्यते दृश्यते सा लक्ष्मीः। वा छन्दसि। पा० ६।१।१०६। इति अमि पूर्वरूपाभावे। इको यणचि। पा० ६।१।७७। इति यण् आदेशः। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति यणः परतोऽनुदात्तस्य स्वरितत्वम्। निर्लक्ष्मीम्, अलक्ष्मीम्, निर्धनताम्, दुर्भाग्यताम्। ललाम्यम्। लल ईप्से−अच्। ततः। अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१५८। इति बाहुलकात्, अम रोगे, पीडने−ई प्रत्ययः। ललम् इच्छां शुभरुचिं आमयति नाशयतीति ललामीः। पूर्ववत् यण् स्वरितत्वं च। ललामीम्, शुभरुचिनाशिनीम्। निर्। नॄ नयने−क्विप् न दीर्घः। ॠत इद्धातोः। पा० ७।१।१००। इति इकारः। बहिर्भावे। निश्चये। अरातिम्। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति रा दाने-क्तिच्। यद्वा, रा-क्तिन्। न राति ददाति सुखम्, नञ्−समासः। सुखस्य अदातारम् शत्रुम्। शत्रुताम्, दुष्टताम्। निः+सुवामसि। षू प्रेरणे, तुदादिः−लट्। मस इदन्तत्वम्। व्यवहिताश्च। पा० १।४।८२। इति उपसर्गस्य व्यवधानम्। निःसुवामः, निःसारयामः। अथ। अनन्तरम्। भद्रा। ऋजेन्द्राग्रवज्र०। उ० २।२८। इति भदि कल्याणे−रन्। निपात्यते च। भद्राणि, मङ्गलानि। तानि। उदीरितानि भद्राणि। नः। अस्माकम्, स्वकीयायै। प्र-जायै। उपसर्गे च संज्ञायाम्। पा० ३।२।९९। इति जनी प्रादुर्भावे−ड प्रत्ययः। जनाय। अरातिम्। शत्रुम्। शत्रुसकाशात्। नयामसि। णीञ् प्रापणे, द्विकर्मकः। मस इदन्तत्वम्। प्रापयामः ॥