वांछित मन्त्र चुनें

यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम्। तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नो ऽसो॒ अवी॑रहा ॥

मन्त्र उच्चारण
पद पाठ

यदि । न: । गाम् । हंसि । यदि । अश्वम् । यदि । पुरुषम् ‌। तम् । त्वा । सीसेन । विध्याम: । यथा । न: । अस: । अवीरऽहा ॥

अथर्ववेद » काण्ड:1» सूक्त:16» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विघ्न के नाश का उपदेश।

पदार्थान्वयभाषाः - (यदि) जो (नः) हमारी (गाम्) गाय को, (यदि) जो (अश्वम्) घोड़े को और (यदि) जो (पुरुषम्) पुरुष को (हंसि) तू मारता है। (तम् त्वा) उस तुझको (सीसेन) बन्धन काटनेहारे सामर्थ्य [ब्रह्मज्ञान] से (विध्यामः) हम वेधते हैं, (यथा) जिससे तू (नः) हमारे (अवीरहा असः) वीरों का नाश करनेहारा न होवे ॥४॥
भावार्थभाषाः - मनुष्य वर्तमान क्लेशों को देखकर आनेवाले क्लेशों को यत्नपूर्वक रोककर आनन्द भोगें ॥४॥ इति तृतीयोऽनुवाकः ॥ इति प्रथमः प्रपाठकः ॥
टिप्पणी: ४−यदि। संभावनायाम्। चेत्। गाम्। १।२।३। गोजातिम्। हंसि। हन हिंसागत्योः−लट्। मारयसि। नाशयसि। अश्वम्। अशूप्रुषिलटि०। उ० १।१५१। इति अशूङ् व्याप्तौ−क्वन्। यद्वा, अश भोजने−क्वन्। अश्वः कस्मादश्नुतेऽध्वानं महाशनो भवतीति−निरु० २।२७। जातावेकवचनम्। घोटम्। तुरङ्गम्। पूरुषम्। पुरः कुषन्। उ० ४।७४। पुर अग्रगतौ−कुषन्। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति निपातनाद् दीर्घः। पुरति अग्रे गच्छतीति पुरुषः। नरं, जनम्। तम्। तथाविधम्। त्वा। त्वां हिंसकम्। सीसेन। म० २। विघ्ननाशकसामर्थ्येन, ब्रह्मज्ञानेन। विध्यामः। व्यध ताडने वेधे−दिवादित्वात् श्यन्। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति संप्रसारणम्। छिनद्मः। ताडयामः, मारयामः। यथा। येन प्रकारेण। असः। अस सत्तायाम्−लेटि अडागमः। त्वम् भूयाः। अवीर-हा। वीरयतीति वीरः, वीर शौर्य्ये−अच्। वीरान् हन्तीति वीरहा, वीर+हन्−क्विप्। न वीरहा अवीरहा। अशूरहन्ता ॥ अथ चतुर्थोऽनुवाकः ॥