वांछित मन्त्र चुनें

असि॑तस्य ते॒ ब्रह्म॑णा क॒श्यप॑स्य॒ गय॑स्य च। अ॑न्तःको॒शमि॑व जा॒मयो ऽपि॑ नह्यामि ते॒ भग॑म्।।४।।

मन्त्र उच्चारण
पद पाठ

असितस्य । ते । ब्रह्मणा । कश्यपस्य । गयस्य । च । अन्‍त:कोशम्ऽइव । जामय: । अपि । नह्यामि । ते । भगम् ॥

अथर्ववेद » काण्ड:1» सूक्त:14» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विवाहसंस्कार का उपदेश।

पदार्थान्वयभाषाः - (असितस्य) जो तू बन्धनरहित, (कश्यपस्य) [सोम] रस पीनेहारा, (च) और (गयस्य) कीर्तन के योग्य है, उस (ते) तेरे (ब्रह्मणा) वेदज्ञान के कारण (ते) तेरे लिये (भगम्) ऐश्वर्य को (अपि) अवश्य (नह्यामि) मैं बाँधता हूँ। (इव) जैसे (जामयः) कुलस्त्रियाँ [वा बहिनें] (अन्तः कोशम्) मञ्जूषा वा पिटारे को [बाँधती] हैं ॥४॥
भावार्थभाषाः - इस मन्त्र के अनुसार वधू पक्षवाले पुरुष और स्त्रियाँ विनती करके श्रेष्ठ वर और कन्या को धन, भूषण और वस्त्र आदि से सत्कार के साथ विदा करें ॥४॥
टिप्पणी: ४−असितस्य। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति षिञ् बन्धने-क्त, नञ्समासः। अबद्धस्य, मुक्तस्य। ब्रह्मणा। १।८।४। वेदज्ञानकारणेन। कश्यपस्य। कश शब्दे−बाहुलकात् करणे-यत्। कशति अनेनेति कश्यं सुखकरो रसः। कश्य+पा पाने-क। कश्यं सोमरसं पिबतीति कश्यपः। सोमपानशीलस्य। गयस्य। गै गाने-घञ्, पृषोदरादित्वात् ह्रस्वः। गेयस्य कीर्तनीयस्य। अन्तः कोशम्−कुश संश्लेषणे−अधिकरणे घञ्। वस्त्रादिधारणाय आवरणम्, मञ्जूषाम्। जामयः। १।४।१। कुलस्त्रियः, माताभगिन्यादयः। अपि। अवधारणे, अवश्यम्। नह्यामि। णह बन्धने-श्यन्। बध्नामि। भगम्। म० १। ऐश्वर्यम् ॥४॥