वांछित मन्त्र चुनें
434 बार पढ़ा गया

नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑। नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥

मन्त्र उच्चारण
पद पाठ

नम: । ते । अस्तु । विऽद्युते । नम: । ते । स्तनयित्नवे ।नम: । ते । अस्तु । अश्मने । येन । दु:ऽदाशे । अस्यसि ॥१३.१॥

अथर्ववेद » काण्ड:1» सूक्त:13» पर्यायः:0» मन्त्र:1


पण्डित क्षेमकरणदास त्रिवेदी

आत्मरक्षा के लिये उपदेश।

पदार्थान्वयभाषाः - [हे परमेश्वर !] (ते) तुझ (विद्युते) कौंधा लेती हुयी, बिजुली रूप को (नमः) नमस्कार (अस्तु) होवे, (ते) तुझ (स्तनयित्नवे) गड़गड़ाते हुए, बादलरूप को (नमः) नमस्कार होवे। (ते) तुझ (अश्मने) पाषाण रूप को (नमः) नमस्कार (अस्तु) होवे, (येन) जिस [पत्थर] से (दूडाशे) दुःखदायी पुरुष को (अस्यसि) तू ढा देता है ॥१॥
भावार्थभाषाः - न्यायकारी परमात्मा दुःखदायी अधर्मी पापियों को आधिदैविक आदि दण्ड देकर असह्य विपत्तियों में डालता है, इसलिये सब मनुष्य उस के कोप से डर कर उस की आज्ञा का पालन करें और सदा आनन्द भोगें ॥१॥
टिप्पणी: १−विद्युते। भ्राजभासधुर्विद्युतो०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ−क्विप् विशेषेण दीप्यमानायै तडिते, सौदामिन्यै, तडिद्रूपाय। स्तनयित्नवे। स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्। उ० ३।२९। इति स्तन देवशब्दे−इत्नुच्। चुरादित्वात् णिच्। अदन्तत्वाद् उपधावृद्ध्यभावः। अयामन्ताल्वाय्येत्न्विष्णुषु। पा० ६।४।५५। इति णेः अयादेशः। गर्जनशीलाय मेघाय, तद्रूपाय। अश्मने। अशिशकिभ्यां छन्दसि। उ० ४।१४७। इति अशूङ् व्याप्तिसंहत्योः−मनिन्। व्यापनशीलाय। पाषाणाय, तद्रूपाय। दुः-दाशे। दुर्+दाशृ दाने-घञ् वा खल्। पृषोदरादीनि यथोपदिष्टम्। पा० ६।१।१०९। अत्र। दुरोदाशनाशदमध्येषूत्वमुत्तरपदादेः ष्टुत्वं च। इति वार्त्तिकेन ऊत्वं डत्वं च। दुर् दुःखं दाशति ददातीति दूडाशः। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति द्वितीयायां सप्तमी। दुःखदाविनम् अधार्मिकं पुरुषम्। अस्यसि। असु क्षेपणे-श्यन्। क्षिपसि नाशयसि ॥