वांछित मन्त्र चुनें

नम॑स्ते राजन्वरुणास्तु म॒न्यवे॒ विश्वं॒ ह्यु॑ग्र निचि॒केषि॑ द्रु॒ग्धम्। स॒हस्र॑म॒न्यान्प्र सु॑वामि सा॒कं श॒तं जी॑वाति श॒रद॒स्तवा॒यम् ॥

मन्त्र उच्चारण
पद पाठ

नम: । ते । राजन्‍ । वरुण । अस्तु । मन्यवे । विश्वम्‍ । हि । उग्र । निऽचिकेषि । द्रुग्धम्‍ । सहस्रम्‍ । अन्यान्‍ । प्र । सुवामि । साकम्‍ । शतम्‍ । जीवाति । शरद: । तव । अयम्‍ ॥

अथर्ववेद » काण्ड:1» सूक्त:10» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वरुण का क्रोध प्रचण्ड है।

पदार्थान्वयभाषाः - (वरुण) हे अतिश्रेष्ठ (राजन्) बड़े ऐश्वर्यवाले, राजा, (ते) तुझ (मन्यवे) क्रोधरूप को (नमः) नमस्कार (अस्तु) होवे, (उग्र) हे प्रचण्ड ! तू (विश्वम्) सब (हि) ही (द्रुग्धम्) द्रोह को (नि-चिकेषि) सदा जानता है। [मैं] (सहस्रम्) सहस्र (अन्यान्) दूसरे जीवों को (साकम्) एक साथ (प्रसुवामि) आगे बढ़ाता हूँ, (ते) तेरा (अयम्) यह [सेवक] (शतम्) सौ (शरदः) शरद् ऋतुओं तक (जीवाति) जीता रहे ॥२॥
भावार्थभाषाः - सर्वज्ञ परमेश्वर के महा क्रोध से भय मानकर मनुष्य पातकों से बचें और सबके साथ उपकार करके जीवन भर आनन्द भोगें ॥२॥
टिप्पणी: २−राजन्। म० १। हे ऐश्वर्यवन्। वरुण। म० १। हे परमेश्वर ! मन्यवे। म० १। क्रोधाय, क्रोधरूपाय। नि-चिकेषि। कि ज्ञाने-लट्, जुहोत्यादिः, शपः श्लुः। त्वं नितरां जानासि। द्रुग्धम्। द्रुह जिघांसायाम्−भावे-क्त। द्रोहम्, अपराधम्। सहस्रम्। सहो बलमस्त्यस्मिन्, सहस्+प्रत्ययो मत्वर्थे। बहुनाम, निघ० ३।१। बहून्, अनेकान्। अन्यान्। माछाशसिभ्यो यः। उ० ४।१०९। इति अन प्राणने, जीवने−य प्रत्ययः। अनिति जीवतीति अन्यः। जीवान्, प्राणिनः। इतरान् वा। प्र+सुवामि। षूङ्, प्रेरणे, तुदादिः, ङित्वाद् गुणप्रतिषेधे उवङ्। प्रकर्षेण प्रेरयामि, ऊर्ध्वं नयामि, उपकरोमि। साकम्। इण्भीकापा०। उ० ३।४३। इति षो अन्तकर्मणि-कन्। सह, समम्। शतम्। बहुनाम, निघ० ३।१। बह्वीः। जीवाति। जीव प्राणधारणे−लेट्, लेटोऽडाटौ। पा० ३।४।९४। इति आडागमः। जीवेत्। शरदः। श्रॄदॄभसोऽदिः। उ० १।१३०। इति शॄ हिंसायाम्−अदि। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। आश्विनकार्तिकमासयुक्तान् ऋतुविशेषान्। संवत्सरान् ॥