324 बार पढ़ा गया
अ॒यं दे॒वाना॒मसु॑रो॒ वि रा॑जति॒ वशा॒ हि स॒त्या वरु॑णस्य॒ राज्ञः॑। तत॒स्परि॒ ब्रह्म॑णा॒ शाश॑दान उ॒ग्रस्य॑ म॒न्योरुदि॒मं न॑यामि ॥
पद पाठ
अयम् । देवानाम् । असुर: । वि । राजति । वशा । हि । सत्या । वरुणस्य । राज्ञ: ।तत: । परि । ब्रह्मणा । शाशदान: । उग्रस्य । मन्यो: । उत् । इमम् । नयामि ॥
अथर्ववेद » काण्ड:1» सूक्त:10» पर्यायः:0» मन्त्र:1
पण्डित क्षेमकरणदास त्रिवेदी
वरुण का क्रोध प्रचण्ड है।
पदार्थान्वयभाषाः - (अयम्) यह (देवानाम्) विजयी महात्माओं का (असुरः) प्राणदाता [वा प्रज्ञावान् वा प्राणवान्] परमेश्वर (विराजति) बड़ा राजा है, (वरुणस्य) वरुण अर्थात् अति श्रेष्ठ (राज्ञः) राजा परमेश्वर की (वशा) इच्छा (सत्या) सत्य (हि) ही है। (ततः) इस लिये (ब्रह्मणा) वेदज्ञान से (परि) सर्वथा (शाशदानः) तीक्ष्ण होता हुआ मैं (उग्रस्य) प्रचण्ड परमेश्वर के (मन्योः) क्रोध से (इमम्) इस को [अपने को] (उत् नयामि) छुड़ाता हूँ ॥१॥
भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर के क्रोध से डर कर मनुष्य पाप न करें और सदा उसे प्रसन्न रक्खें ॥१॥
टिप्पणी: १−अयम्। पुरोवर्ती। देवानाम्। १।४।३। दिव्यगुणवतां विदुषाम्। असुरः। असेरुरन्। उ० १।४२। इति असु क्षेपे-उरन्। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति नित्त्वाद् आद्युदात्तः ॥ अस्यति शत्रून्। यद्वा, अस गतिदीप्त्यादानेषु−उरन्। असति गच्छति व्याप्नोति सर्वत्र, दीप्यते स्वयम्, आदत्ते वा साधून्। यद्वा। असुं प्राणं राति ददातीति, असु+रा दानादानयोः−क। मेघनाम−निघ० १।१०। असुरत्वं प्रज्ञावत्त्वं वानवत्वं वापिवासुरिति प्रज्ञानामास्यत्यनर्थानस्ताश्चास्यामर्था वसुरत्वमादिलुप्तम्−निरु० १०।३४। क्षेप्ता। शूरः। व्यापकः। दीप्यमानः। ग्रहीता। प्राणदाता। प्रज्ञावान्। यद्वा, मेघवद् उदारः। वरुणविशेषणमेतत्। वि। विशेषेण। राजति। राजृ दीप्तौ। दीप्यते, ईष्टे ईश्वरो भवति−निघ० २।२१। वशा। वश स्पृहि-अप्, टाप्। इच्छा, स्पृहा। हि। अवश्यम्। यस्मात्। सत्या। तस्मै हितम्। पा० ५।१।५। इति सत्+यत्, टाप्। सद्भ्यो हिता, अवितथा। वरुणस्य। १।३।३। व्रियते स्वीक्रियते स वरुणः। अतिश्रेष्ठस्य। परमेश्वरस्य। राज्ञः। राजति, ऐश्वर्यकर्मा−निघ० २।२१। कनिन् युवृषितक्षिराजि०। उ० १।१५६। इति राजृ दीप्तौ−ऐश्वर्ये च-कनिन्। स्वामिनः, अधिपतेः, ईश्वरस्य। ब्रह्मणा। १।८।४। वेदज्ञानेन। शाशदानः। शद्लृ शातने यङ्लुगन्ताद् छन्दसि शानच्। शाशद्यमानः−निरु० ६।१६। अत्यर्थं तीक्ष्णः। विजयी। उग्रस्य। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति उच समवाये-रक्। उच्यति क्रुधा सम्बध्यते। उत्कटस्य, प्रचण्डस्य। मन्योः। यजिमनिशुन्धिदसिजनिभ्यो युच्। उ० ३।२०। इति मन ज्ञाने गर्वे, धृतौ च-भावे कर्तरि वा-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा−निरु० १०।२९। क्रोधात्। उत्+नयामि। उपसर्गस्य व्यवधानम्। ऊर्ध्वं गमयामि, मोचयामीत्यर्थः ॥
