वांछित मन्त्र चुनें

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

अंग्रेज़ी लिप्यंतरण

juṣethāṁ yajñam bodhataṁ havasya me viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā ||

पद पाठ

जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.४

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:4 | अष्टक:6» अध्याय:3» वर्ग:14» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विना+देवौ) हे राजदेव ! तथा मन्त्रिदलदेव ! आप सब मिलकर (यज्ञम्) शुभकर्म को (जुषेथाम्) प्रीतिपूर्वक सेवें। (मे) मेरे (हवस्य) आह्वान को (बोधतम्) जानें या प्राप्त करें। आप दोनों (उषसा) मृदुता और (सूर्येण+च) तीक्ष्णता से (सजोषसा) संयुक्त होकर आप (नः) हम लोगों के निकट (इषम्) अन्न (आ+वोढम्) मँगवावें ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ देवौ। यज्ञं जुषेथां प्रीत्या सेवेथाम्। मे मम। हवस्य=हवमाह्वानं बोधतं वित्तम्। इहात्र संसारे। विश्वा=विश्वानि सर्वाणि। सवना=सवनानि यज्ञान्। अवगच्छतं प्राप्नुतम्। इषमन्नञ्च नोऽस्मान्। आवोढं=प्रापयतम्। सिद्धमन्यत् ॥४॥