Devata: रुद्रा देवताः
Rishi: परमेष्ठी प्रजापतिर्वा देवा ऋषयः
Chhanda: विराडार्ष्यनुष्टुप्
Swara: गान्धारः
Viewed 496 times
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्राऽअधि॒ भूम्या॑म्। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५४ ॥
Pad Path
असं॑ख्या॒तेत्यस॑म्ऽख्याता। स॒हस्रा॑णि। ये। रु॒द्राः। अधि॑। भूम्या॑म्। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥५४ ॥
Yajurveda » Adhyay:16» Mantra:54
