च꣣र्षणीधृ꣡तं꣢ म꣣घ꣡वा꣢नमु꣣क्थ्या꣢३꣱मि꣢न्द्रं꣣ गि꣡रो꣢ बृह꣣ती꣢र꣣꣬भ्यनू꣢꣯षत । वा꣣वृधानं꣡ पु꣢रुहू꣣त꣡ꣳ सु꣢वृ꣣क्ति꣢भि꣣र꣡म꣢र्त्यं꣣ ज꣡र꣢माणं दि꣣वे꣡दि꣢वे ॥३७४॥
(If you are unable to read the above font properly, please upgrade your operating system.)चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत । वावृधानं पुरुहूतꣳ सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥३७४॥
च꣣र्षणीधृ꣡त꣢म् । च꣣र्षणि । धृ꣡त꣢꣯म् । म꣣घ꣡वा꣢नम् । उ꣣क्थ्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । गि꣡रः꣢꣯ । बृ꣣हतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । वावृधान꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । ज꣡र꣢꣯माणम् । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥३७४॥