दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम्। अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥
We found 5 references of सरस्वान् in Rigveda
दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम्। अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥
स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु । स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥
जनीयन्तो न्वग्रवः पुत्रीयन्त: सुदानवः । सरस्वन्तं हवामहे ॥
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुत: । तेभिर्नोऽविता भव ॥
पीपिवांसं सरस्वत: स्तनं यो विश्वदर्शतः । भक्षीमहि प्रजामिषम् ॥
We found 1 references of सरस्वान् in Samveda
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तꣳ हवामहे ॥१४६०॥
We found 2 references of सरस्वान् in Atharvaveda
यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः। यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्। रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् ॥