Go To Mantra
Viewed 110 times

उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि। आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥

Mantra Audio
Pad Path

उत्ऽयानम् । ते । पुरुष । न । अवऽयानम् । जीवातुम् । ते । दक्षऽतातिम् । कृणामि । आ । हि । रोह । इमम् । अमृतम् । सुऽखम् । रथम् । अथ । जिर्वि: । विदथम् । आ । वदासि ॥१.६॥

Atharvaveda » Kand:8» Sukta:1» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य कर्त्तव्य का उपदेश।

Word-Meaning: - (पुरुष) हे पुरुष ! (ते) तेरा (उद्यानम्) चढ़ाव [होवे], (न) न (अवयानम्) गिराव, (ते) तेरे लिये (जीवातुम्) जीविका और (दक्षतातिम्) बल [योग्यता] (कृणोमि) मैं करता हूँ। (हि) अवश्य (इमम्) इस (अमृतम्) अमर [सनातन], (सुखम्) सुखदायक (रथम्) रथ पर (आ रोह) चढ़ जा [उपदेश मान], (अथ) फिर (जिर्विः) स्तुतियोग्य [होकर] तू (विदथम्) विचारसमाज में (आ वदासि) भाषण कर ॥६॥
Connotation: - जो मनुष्य ईश्वराज्ञा और गुरुशिक्षा से विघ्नों को हटाकर आगे बढ़ते हैं, वे संसार में स्तुति पाकर सभाओं के अधिष्ठाता होते हैं ॥६॥
Footnote: ६−(उद्यानम्) ऊर्ध्वगमनम् (ते) तव (पुरुषः) (न) निषेधे (अवयानम्) अधः पतनम् (जीवातुम्) अ० ६।५।२। जीविकम्-निरु० ११।११। (ते) तव (दक्षतातिम्) सर्वदेवात्तातिल्। पा० ४।४।१४२। बाहुलकात्, दक्षादपि तातिल् स्वार्थे। दक्षं बलं योग्यताम् (कृणोमि) करोमि (आ रोह) अधितिष्ठ (हि) अवश्यम् (इमम्) पूर्वोक्तम् (अमृतम्) सनातनम् (सुखम्) सुखपदम् (रथम्) यानम्। उपदेशमित्यर्थः (अथ) अनन्तरम् (जिर्विः) जॄशॄस्तॄजागृभ्यः क्विन्। उ० ४।५४। जॄ स्तुतौ-क्विन्, छान्दसो ह्रस्वः। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। जीर्विः। स्तुत्यः (विदथम्) अ० १।१३।४। विद विचारणे-अथ, ङित्। विचारसमाजम्। यज्ञम्। निघ० ३।१७। (आ वदासि) लेटि रूपम्। व्यक्तं भाषय ॥