Go To Mantra
Viewed 95 times

अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्। इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥

Mantra Audio
Pad Path

अनमित्रम् । न: । अधरात् । अनमित्रम् । न: । उत्तरात् । इन्द्र । अनमित्रम् । न: । पश्चात् । अनमित्रम् । पुर: । कृधि ॥४०.३॥

Atharvaveda » Kand:6» Sukta:40» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं से रक्षा के लिये उपदेश।

Word-Meaning: - (इन्द्र) हे महाप्रतापी परमेश्वर ! (नः) हमारे लिये (अधरात्) नाचे से (अनमित्रम्) निर्वैरता, (नः) हमारे लिये (उत्तरात्) ऊपर से (अनमित्रम्) निर्वैरता, (नः) हमारे लिये (पश्चात्) पीछे से (अनमित्रम्) निर्वैरता और (पुरः) आगे से (अनमित्रम्) निर्वैरता (कृधि) तू कर ॥३॥
Connotation: - मनुष्य सब स्थान और सब काल में शान्तिदायक कर्म करें ॥३॥
Footnote: ३−(अनमित्रम्) अमेर्द्विषति चित्। उ० ४।१७४। इति अम पीडने−भावे इत्रच्। निर्वैरत्वम् (नः) अस्मभ्यम् (अधरात्) अधस्तात् (उत्तरात्) उपरिदेशात् (इन्द्र) हे महाप्रतापिन् जगदीश्वर (पश्चात्) अ० ४।४०।३। पृष्ठतो देशात् (पुरः) अग्रदेशात् (कृधि) कुरु। अन्यद्गतम् ॥