Go To Mantra
Viewed 112 times

अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑। अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥

Mantra Audio
Pad Path

अंश: । भग: । वरुण: । मित्र: । अर्यमा । अदिति: । पान्तु । मरुत: । अप । तस्य । द्वेष: । गमेत् । अभिऽह्रुत: । यवयत् । शत्रुम् । अन्तितम् ॥४.२॥

Atharvaveda » Kand:6» Sukta:4» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

सब की रक्षा का उपदेश।

Word-Meaning: - (अंशः) विभाग करनेवाला, (भगः) सेवने योग्य (वरुणः) अपान वायु, (मित्रः) प्राण वायु, (अर्यमा) अन्धकारनाशक सूर्य, और (अदितिः) अदीन भूमि (मरुतः) शूर देवताओं की (पान्तु) रक्षा करें। वे (अभिह्रुतः) कुटिलशील (तस्य) हिंसक चोर के (द्वेषः) दुष्टता को (अप गमेत्=गमयेयुः) हटा देवें और (अन्तितम्) बन्ध में डालनेवाले (शत्रुम्) शत्रु को (यवयत्=यवयेयुः) पृथक् करें ॥२॥
Connotation: - मनुष्य भीतरी और बाहिरी अवस्था को सुधार कर अपने दोषों का नाश करके उन्नति करें ॥२॥
Footnote: २−(अंशः) विभाजकः (भगः) भजनीयः। सेवनीयः (वरुणः) अपानः (मित्रः) प्राणः (अर्यमा) अ० ३।१४।२। अन्धकारनाशक आदित्यः (अदितिः) अ० २।२८।४। अदीना भूमिः (पान्तु) रक्षन्तु (मरुतः) अ० १।२०।१। शूरान् देवान् (अप) दूरीकरणे (तस्य) तर्द हिंसायाम्−ड। हिंसकस्य। चोरस्य (द्वेषः) द्विष−असुन्। अप्रीतिम् (गमेत्) अन्तर्गतणिजर्थः, बहुवचनस्यैकवचनम्। गमयेयुः (अभिह्रुतः) ह्वृ कौटिल्ये−क्विप्। कुटिलस्य (यवयत्) यु मिश्रणामिश्रयणयोः−ण्यन्ताल्लेटि अडागमो वृद्ध्यभावो बहुवनस्यैकवचनं च। यवयेयुः पृथक् कुर्युः (शत्रुम्) वैरिणम् (अन्तितम्) अति बन्धने−कर्तरि क्तः। बन्धकम् ॥