Go To Mantra
Viewed 93 times

ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे। अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ॥

Mantra Audio
Pad Path

ये । ब्राह्मणम् । प्रतिऽअष्ठीवन् । ये । वा । अस्मिन् । शुल्कम् । ईषिरे । अस्न: । ते । मध्ये । कुल्याया: । केशान् ।खादन्त: । आसते ॥१९.३॥

Atharvaveda » Kand:5» Sukta:19» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

नास्तिक के तिरस्कार का उपदेश।

Word-Meaning: - (ये) जिन्होंने (ब्राह्मणम्) ब्राह्मण को (प्रत्यष्ठीवन्) निकाल ही दिया, (वा) अथवा (ये) जिन्होंने (अस्मिन्) उस पर से (शुल्कम्) कर (ईषिरे) उगाहा। (ते) वे लोग (अस्नः) रुधिर की (कुल्यायाः) नदी के (मध्ये) बीच में (केशान्) क्लिष्ट पदार्थों को (खादन्तः) खाते हुए (आसते) ठहरते हैं ॥३॥
Connotation: - जो अत्याचारी राक्षस लोग ब्राह्मणों को सताते हैं, वे घोर युद्धों में हार कर बड़े-बड़े कष्ट उठाते हैं ॥३॥
Footnote: ३−(ये) दुष्टाः (ब्राह्मणम्) ब्रह्मवेत्तारम् (प्रत्यष्ठीवन्) ष्ठिवु निरसने−लङ्। प्रत्यक्षं निरस्तवन्तः बहिष्कृतवन्तः (ये) (वा) अथवा (अस्मिन्) ब्राह्मणे (शुल्कम्) शुल्क अतिस्पर्शने, सर्जने−घञ्। करम् (ईषिरे) ईष उञ्छे लिट्, आत्मनेपदं छान्दसम्। एकत्र कृतम् (अस्नः) अ० ५।५।८। असृज, असन् आदेशः। रुधिरस्य (ते) ब्राह्मणनिन्दकाः (मध्ये) घोरसंग्राममध्ये (कुल्यायाः) कुल संस्त्याने−क्यप्। टाप्। नद्याः−निघ०। १।१३। (केशान्) क्लिशेरन् लो लोपश्च। उ० ५।३३। इति क्लिश उपतापे−अन्, लस्य लोपः। क्लिष्टान् पदार्थान् (खादन्तः) भक्षयन्तः (आसते) तिष्ठन्ति ॥