Go To Mantra
Viewed 109 times

स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि ष्वा॑पया॒ जन॑म्। ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥

Mantra Audio
Pad Path

स्वप्न । स्वप्नऽअभिकरणेन । सर्वम् । नि । स्वापय । जनम् । आऽउत्सूर्यम् । अन्यान् । स्वापय । आऽव्युषम् । जागृतात् । अहम् । इन्द्र:ऽइव । अरिष्ट: । अक्षित: ॥५.७॥

Atharvaveda » Kand:4» Sukta:5» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

बच्चों के सुलाने का गीत अर्थात् लोरी।

Word-Meaning: - (स्वप्न) हे निद्रा ! (स्वप्नाभिकरणेन) नींद के उपाय वा साधन से (सर्वं जनम्) सब जनों को (नि, स्वापय) सुलादे। (अन्यान्) दूसरे पुरुषों को (ओत्सूर्यम्) सूर्य उदय तक (स्वापय) सुला, (अहम्) मैं (इन्द्रः इव) प्रतापी मनुष्य के समान (अरिष्टः) नाशरहित और (अक्षितः) हानिरहित (आव्युषम्) प्रभात तक (जागृतात्=जागराणि) जागरण करूँ ॥७॥
Connotation: - घर के अन्य सब स्त्री-पुरुष अपने-अपने स्थानों पर सो जावें और गृहपति यथावत् जाग कर सावधानी रक्खे ॥७॥ इति प्रथमोऽनुवाकः ॥
Footnote: ७−(स्वप्न) ञिष्वप् शये-नन्। हे निद्रे (स्वप्नाभिकरणेन) निद्राजनकेन साधनेन कर्मणा द्रव्येण वा (सर्वम्) सकलम् (नि स्वापय) सर्वथा निद्रापय (जनम्) मनुष्यसमूहम् (ओत्सूर्यम्) उद्यन् सूर्य्यो यस्मिन् काले स उत्सूर्यः कालः। सूर्योदयपर्यन्तम् (अन्यान्) इतरान् मनुष्यान्। (आव्युषम्) उष वधे दाहे च-क, वा टाप्। उषः, उषा वा रात्रिशेषः। उषः कालावधि। रात्र्यवसानपर्यन्तम् (जागृतात्) जागृ निद्राक्षये लोट्, उत्तमपुरुषस्य छन्दसि प्रथमपुरुषः। अहं जागराणि। जागृतो भवानि (अहम्) गृहपतिः (इन्द्रः इव) प्रतापी पुरुषो यथा (अरिष्टः) अहिंसितः (अक्षितः) क्षयरहितः ॥