Go To Mantra
Viewed 179 times

तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रो वृषा॑। यो नो॑ दुर॒स्याद्दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात् ॥

Mantra Audio
Pad Path

तान् । सत्यऽओजा: । प्र । दहतु । अग्नि: । वैश्वानर: । वृषा । य: । न: । दुरस्यात् । दिप्सात् । च । अथो इति । य: । न: । अरातिऽयात् ॥३६.१॥

Atharvaveda » Kand:4» Sukta:36» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (सत्यौजाः) सत्य बलवाला, (वैश्वानरः) सब नरों का हित करनेवाला, (वृषा) सुख वर्षानेवाला वा ऐश्वर्यवान् (अग्निः) सर्वव्यापक परमेश्वर (तान्) उन सबको (प्र दहतु) भस्म कर डाले। (यः) जो (नः) हमें (दुरस्यात्) दुष्ट माने, (च) और जो (दिप्सात्) मारना चाहे, (अथो) और भी (यः) जो (नः) हम से (अरातियात्) बैरी सा बर्ताव करे ॥१॥
Connotation: - पुरुषार्थी मनुष्य परमेश्वर पर विश्वास करके धर्म के विघ्नकारियों को नष्ट करें ॥१॥
Footnote: १−(तान्) निर्दिष्टान् (सत्यौजाः) अवितथबलः (प्र) प्रकर्षेण (दहतु) भस्मीकरोतु (अग्निः) सर्वव्यापकः परमेश्वरः (वैश्वानरः) अ० १।१०।४। सर्वनरहितः (वृषा) अ० १।१२।१। सुखवर्षकः। ऐश्वर्यवान् (यः) शत्रुः (नः) अस्मान् (दुरस्यात्) उपमानादाचारे। पा० ३।१।१०। इति दुष्ट-क्यच्। दुरस्युर्द्रविणस्युर्०। पा० ७।४।३६। इति क्यचि दुष्टस्य दुरस् भावः। तदन्ताल्लेटि आडागमः। दुष्टानिवाचरेत् (दिप्सात्) दम्भु दम्भे-सन्। दम्भ इच्च पा०। ७।४।५६। इति इत्वम्। अत्र लोपोऽभ्यासस्य। पा० ७।४।५८। इति अभ्यासलोपः। भष्भावाभावश्छान्दसः। धिप्सेत्। दम्भितुं हिंसितुमिच्छेत् (च) (अथो) अपि च (अरातियात्) पूर्ववत् क्यचि लेट्। अरातिवदाचरेत्। शत्रुवदनुतिष्ठेत् ॥