Go To Mantra
Viewed 133 times

म॒न्वे वां॑ मित्रावरुणावृतावृधौ॒ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॑। प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

Mantra Audio
Pad Path

मन्वे । वाम् । मित्रावरुणौ । ऋतऽवृधौ । सऽचेतसौ । द्रुह्वण: । यौ । नुदेथे इति । प्र । सत्यऽवानम् । अवथ: । भरेषु । तौ । न: । मुञ्चतम् । अंहस: ॥२९.१॥

Atharvaveda » Kand:4» Sukta:29» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

पुरुषार्थ करने का उपदेश।

Word-Meaning: - (ऋतावृधौ) हे सत्य के बढ़ानेवाले (सचेतसौ) समान ज्ञान कराने हारे (मित्रावरुणा) मित्र और वरुण [प्राण और अपान अथवा दिन और रात] (वाम्) तुम दोनों का (मन्त्रे) मैं मनन करता हूँ, (यौ) जो तुम दोनों (द्रुह्वणः) द्रोहकारियों को (नुदेथे) निकाल देते हो और (सत्यावानम्) सत्यवान् पुरुष को (भरेषु) संग्रामों में (प्र) अच्छे प्रकार (अवथः) बचाते हो। (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥—१॥
Connotation: - जो मनुष्य प्राणायाम करके श्वास-श्वास पर दिन-रात शुभ चिन्तन करते हैं, वे सत्यवादी सत्यसंकल्पी पुरुष आत्मदोषों को त्याग कर संसार में विजय पाते और आनन्द भोगते हैं ॥—१॥
Footnote: १−(मन्वे) मननं करोमि (वाम्) युवयोः (मित्रावरुणा) अ० १।२०।२। मिनोति प्रेरयति जगत् कार्ये स मित्रः। वृणोति आच्छादयति स्वीकरोति वा स वरुणः। प्राणापानौ, दयानन्दभाष्ये-य० २।३। अहोरात्राभिनानिनौ-इति सायणः, म० २। अहोरात्रौ। (ऋतावृधौ) छान्दसो दीर्घः। ऋतस्य सत्यस्य वर्धयितारौ (सचेतसौ) अ० ४।२६।१। समानचेतयितारौ (द्रुह्वणः) अन्यभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति द्रुह जिघांसायाम् क्वनिप्। द्रोग्धॄन्। उपद्रविणः (यौ) मित्रावरुणौ (नुदेथे) णुद प्रेरणे। दूरे प्रेरयथः। स्थानात् प्रच्यावयथः (प्र) प्रकर्षेण (सत्यावानम्) छन्दिसीवनिपौ। वा० पा० ५।२।१०९। इति मत्वर्थीयो वनिप्। छान्दसो दीर्घः। सत्यवन्तं सत्यप्रतिज्ञं पुरुषम् (अवथः) रक्षथः (भरेषु) भृ भर्त्सने क्र्यादिः-पचाद्यच्। संग्रामेषु-निरु० २।१७। (तौ) तादृशौ युवाम् (नः) अस्मान् (मुञ्चतम्) मोचयतम् (अंहसः) कष्टात् ॥—