Go To Mantra
Viewed 121 times

यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥

Mantra Audio
Pad Path

युनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥

Atharvaveda » Kand:4» Sukta:22» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

संग्राम में जय के लिये उपदेश।

Word-Meaning: - [हे राजन् !] (ते !) तेरे लिये (उत्तरावन्तम्) अत्यन्त उत्तम गुणवाले (इन्द्रम्) परमेश्वर को (युनज्मि) मैं संयुक्त करता हूँ, (येन) जिसके साथ [शूर जन] (जयन्ति) जय पाते हैं, और (न) कभी नहीं (पराजयन्ते) हारते हैं। (यः) जो (त्वा) तुझको (जनानाम्) मनुष्यों के बीच (एकवृषम्) अद्वितीय प्रधान, और (मानवानाम्) मननशील अथवा माननीय (राज्ञाम्) राजाओं में (उत्तमम्) अति श्रेष्ठ (करत्) करे ॥५॥
Connotation: - विद्वान् पुरुष राजा को परमेश्वर का उपदेश करें, जिसके आश्रय से वह राजा धीर-वीर होकर प्रजा का पालन करे और उत्तमों में उत्तम राजा हो ॥५॥
Footnote: ५−(युनज्मि) योजयामि (ते) तुभ्यम् (उत्तरावन्तम्) छान्दसो दीर्घः। अत्युत्कृष्टगुणयुक्तम् (इन्द्रम्) परमात्मानम् (येन) इन्द्रेण सह (जयन्ति) शूरा जयं प्राप्नुवन्ति (न) निषेधे (पराजयन्ते) विपराभ्यां जेः। पा० १।३।१९। इति आत्मनेपदम्। शत्रुभ्यः सकाशात् पराभवं प्राप्नुवन्ति (यः) इन्द्रः (त्वा) त्वां राजानम् (करत्) करोतेर्लेट्। लेटोऽडाटौ। पा० ३।४।९४। इति अडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इति इकारलोपः। कुर्यात् (एकवृषम्) म० १। अद्वितीयं सुखसेचकं सार्वभौमम् (जनानाम्) शूरजनानाम् (उत) अपि च (राज्ञाम्) क्षत्रियाणाम् (उत्तमम्) पुण्यं सर्वश्रेष्ठं प्रजापरिपालनशौर्यादिगुणैरुत्कृष्टम् (मानवानाम्) तस्येदम्। पा० ४।३।१२०। इति। मनु-अण्। मननशीलानाम्। यद्वा। छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति मान-व प्रत्ययो मत्वर्थे। मान्यानाम् ॥