Go To Mantra
Viewed 114 times

यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॑ वञ्चति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म्। द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद्वे॑द॒ वरु॑णस्तृ॒तीयः॑ ॥

Mantra Audio
Pad Path

य: । तिष्ठति । चरति । य: । च । वञ्चति । य: । निऽलायम् । चरति । य: । प्रऽङ्कम् । द्वौ । सम्ऽनिषद्य । यत् । मन्त्रयते । इति । राजा । तत् । वेद । वरुण: । तृतीय: ॥१६.२॥

Atharvaveda » Kand:4» Sukta:16» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

वरुण की सर्वव्यापकता का उपदेश।

Word-Meaning: - (यः) जो पुरुष (तिष्ठति) खड़ा होता है, वा (चरति) चलता है, (च) और (यः) जो पुरुष (वञ्चति) ठगी करता है, और (यः) जो (निलायन्) भीतर घुसकर, और (यः) जो (प्रतङ्कम्) बाहिर निकलकर (चरति) काम करता है और (द्वौ) दो जने (संनिषद्य) एक साथ बैठकर (यत्) जो कुछ (मन्त्रयेते) कानाफूसी करते हैं, (तृतीयः) तीसरा (राजा) राजा (वरुणः) वरणीय वा दुष्टनिवारण वरुण परमेश्वर (तत्) उसे (वेद) जानता है ॥२॥
Connotation: - परमेश्वर प्राणियों के गुप्त से गुप्त कर्मों को सर्वथा जानता और उनका यथावत् फल देता है ॥२॥
Footnote: २−(यः) पुरुषः (तिष्ठति) स्थितो भवति (चरति) गच्छति (वञ्चति) प्रतारयति। वञ्चनं करोति (निलायन्) नि+ली श्लेषे द्रावणे च-शतृ। निलीनः अदृश्यः सन् (चरति) आचरति (प्रतङ्कम्) प्र+तकि कृच्छ्रजीवने-णमुल्। प्रकृष्टगमनं बहिर्गमनं प्राप्य (द्वौ) यौ पुरुषौ (संनिषद्य) सहोपविश्य (यत्) यत्किञ्चित् कार्यम् (मन्त्रयेते) मत्रि गुप्तभाषणे। रहसि गुप्तं भाषेते (राजा) ईश्वरः (सर्वम्) (वेद) वेत्ति (वरुणः) वरणीयो दुष्टानां निवारको वा (तृतीयः) त्रेः संप्रसारणं च। पा० ५।२।५५। इति त्रि-तीय, संप्रसारणं च। त्रयाणां पूरकः ॥