Go To Mantra
Viewed 97 times

ह॑स्तिवर्च॒सं प्र॑थतां बृ॒हद्यशो॒ अदि॑त्या॒ यत्त॒न्वः॑ संब॒भूव॑। तत्स॑र्वे॒ सम॑दु॒र्मह्य॑मे॒तद्विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥

Mantra Audio
Pad Path

हस्तिऽवर्चसम् । प्रथताम् । बृहत् । यश: । अदित्या: । यत् । तन्व: । सम्ऽबभूव । तत् । सर्वे । सम् । अदु: । मह्यम् । एतत् । विश्वे । देवा: । अदिति: । राऽजोषा: ॥२२.१॥

Atharvaveda » Kand:3» Sukta:22» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

कीर्ति पाने के लिये उपदेश।

Word-Meaning: - (हस्तिवर्चसम्) हाथी के बल से युक्त (बृहत्) बड़ा (यशः) यश (प्रथताम्) फैले, (यत्) जो (अदित्याः) अदीन वेदवाणी वा प्रकृति के (तन्वः) विस्तार से (संबभूव) उत्पन्न हुआ है, (तत्) सो (एतत्) यह [यश] (मह्यम्) मुझको (सजोषाः) समान प्रीतिवाली (अदितिः) अखण्ड वेदवाणी वा प्रकृति और (विश्वे) सब (देवाः) प्रकाशमान गुणों ने (सर्वे) सर्वव्यापक विष्णु भगवान् में (सम्) ठीक प्रकार से (अदुः) दिया है ॥१॥
Connotation: - मनुष्य वेदविद्या और प्रकृति के यथावत् ज्ञान से (जिस सबका केन्द्र परमेश्वर है) हाथी आदि का सामर्थ्य पाकर यशस्वी होता है। म० ६ देखो ॥१॥ भगवान् पतञ्जलि का वचन है−बलेषु हस्तिबलादीनि ॥ यो० द० ३।२३ ॥ बलों में [संयम करने से] हाथी के से बल हो जाते हैं ॥
Footnote: १−(हस्तिवर्चसम्) हस्ताज्जातौ। पा० ५।२।१३३। इति हस्त-इनि। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति वर्चस्-अच् मत्वर्थे। गजस्य बलयुक्तम्। (प्रथताम्) प्रथ प्रख्याने-लोट्। प्रख्यातं भवतु। (बृहत्) महत्। (यशः) कीर्त्तिः। (अदित्याः)। अ० २।२८।४। अदितिः, वाक्-निघ० १।११। अदीनाया वेदवाण्याः प्रकृतेर्वा। (यत्) यशः। (तन्वः) अ० १।१।१।१। शरीरात्। विस्तृतेः। (संबभूव) उत्पन्नमभवत्। (सर्वे) सर्वनिघृष्व०। उ० १।१५३। इति सृ गतौ-वन्, यद्वा। सर्व गतौ-अच्। सरति सर्वति वा गच्छति व्याप्नोतीति सर्वः, शिवः, विष्णुः। तस्मिन् व्यापके परमेश्वरे। (सम्) सम्यक्। (अदुः) दाञो लुङ्। दत्तवन्तः। (मह्यम्) मदर्थम्। (विश्वे) सर्वे। (देवाः) दिव्यगुणाः। (अदितिः) अदीना, अखण्डिता वा वेदवाणी प्रकृतिर्वा। (सजोषाः) समान+जुषी प्रीतिसेवनयोः-असुन्। समानप्रीतिः ॥