Go To Mantra
Viewed 81 times

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ। त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥

Mantra Audio
Pad Path

त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओज: । वज्रेण । वज्रिन् । धृषित: । जघन्थ ॥ त्वम् । शुष्णस्य । अव । अतिर: । वधत्रै: । त्वम् । गा: । इन्द्र । शच्या । इत् । अविन्द: ॥१३७.११॥

Atharvaveda » Kand:20» Sukta:137» Paryayah:0» Mantra:11


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (वज्रिन्) हे वज्रधारी (इन्द्र) इन्द्र ! [महाप्रतापी राजन्] (धृषितः) निर्भय (त्वम्) तूने, (त्वम्) तूने (ह) ही (शुष्णस्य) सुखानेवाले वैरी के (त्यत्) उस (अप्रतिमानम्) अनुपम (ओजः) बल को (वज्रेण) वज्र से और (वधत्रैः) हथियारों से (जघन्थ) नष्ट कर दिया है और (अव अतिरः) नीचे किया है, (त्वम्) तूने (गाः) उसकी भूमियों को (शच्या) अपनी बुद्धि से (इत्) ही (अविन्दः) पाया है ॥११•॥
Connotation: - राजा अपनी बुद्धि के बल से शस्त्र-अस्त्र आदि युद्धसामग्री एकत्र करके शत्रुओं को मारकर प्रजा की रक्षा करे ॥११॥
Footnote: ११−(त्वम्) (ह) एव (त्यत्) तत्। प्रसिद्धम् (अप्रतिमानम्) प्रतिमानमुपमा। निरुपमम् (ओजः) बलम् (वज्रेण) आयुधेन (वज्रिन्) हे वज्रवन् (धृषितः) धृष्टः। निर्भयः (जघन्थ) हन्तेर्लिट्। हतवान् नाशितवानसि (त्वम्) (शुष्णस्य) शोषकस्य शत्रोः (अव अतिरः) अवतारितवानसि। नीचैः कृतवानसि (वधत्रैः) अमिनक्षियजिवधि०। उ० ३।१०। वध संयमने-अत्रन्, यद्वा, हन हिंसागत्योः-अत्रन्, वधादेशः। संयमनसाधनैः हननसाधनैर्वा आयुधैः (त्वम्) (गाः) शत्रुभूमीः (इन्द्र) महाप्रतापिन् राजन् (शच्या) स्वप्रज्ञया (इत्) एव (अविन्दः) अलभथाः ॥