Go To Mantra
Viewed 86 times

अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि। न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥

Mantra Audio
Pad Path

अयामि । घोष: । इन्द्र । देवऽजाभि: । इरज्यन्त । यत् । शुरुध: । विऽवाचि ॥ नहि । स्वम् । आयु: । चिकिते । जनेषु । तानि । इत् । अंहासि । अति । पर्षि । अस्मान् ॥१२.२॥

Atharvaveda » Kand:20» Sukta:12» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

सेनापति के कर्तव्य का उपदेश।

Word-Meaning: - (इन्द्रः) हे इन्द्र ! [महाप्रतापी वीर] (देवजामिः) विद्वानों को प्राप्त होनेवाला (घोषः) शब्द (अयामि) ऊँचा किया गया है, (यत्) जिस [शब्द] को (शुरुधः) शीघ्र रोकनेवाले पुरुष (विवाचि) विविध वाणियों से युक्त व्यवहार [वा संग्राम] में (इरज्यन्त) सेवते हैं। (स्वम्) अपने (आयुः) जीवनकाल को (जनेषु) मनुष्यों में (नहि) किसी ने नहीं (चिकिते) जाना है, (तानि) उन (अंहासि) पापों को (इत्) ही (अति) लाँघकर (अस्मान्) हमें (पर्षि) पाल ॥२॥
Connotation: - मनुष्य वेदवचनों को भली-भाँति मानता हुआ और मृत्यु को सदा अपने पास जानता हुआ पापों को छोड़ धर्म करने में शीघ्रता करता रहे ॥२॥
Footnote: २−(अयामि) यमु उपरमे कर्मणि लुङ्। उद्यतः। उच्चैर्गतः (घोषः) शब्दः (इन्द्रः) हे महाप्रतापिन् वीर (देवजामिः) वसिवपियजि०। उ० ४।१२। जमु अदने गतौ च-इञ्। जमतिर्गतिकर्मा-निघ० २।१४। यो देवान् विदुषः पुरुषान् जमति प्राप्नोति सः (इरज्यन्त) लटि रूपम्। इरज्यतिः परिचरणकर्मा-निघ० ३।। इरज्यन्ति। सेवन्ते (यत्) यं घोषम् (शुरुधः) शु गतौ-डु+रुधिर् आवरणे-क्विप्। शवतिर्गतिकर्मा-निघ० २।१४, परिचरणकर्मा-निघ० ३।। आशु इति च शु इति च क्षिप्रनामनी भवतः-निरु० ६।१। शीघ्ररोधनशीलाः (विवाचि) विवाक् संग्रामनाम-निघ० २।१७। विविधवाणीयुक्तं व्यवहारे संग्रामे वा (नहि) न कोऽपि (स्वम्) स्वकीयम् (आयुः) जीवनकालम् (चिकिते) कित ज्ञाने-लिट्। ज्ञातवान् (जनेषु) मनुष्येषु (तानि) प्रसिद्धानि (इत्) एव (अंहांसि) पापानि (अति) अतीत्य उल्लङ्घ्य (पर्षि) पॄ पालनपूरणयोः-लेट्। पालय (अस्मान्) ॥