Viewed 84 times
को अ॑स्मि॒न्रेतो॒ न्यदधा॒त्तन्तु॒रा ता॑यता॒मिति॑। मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥
Pad Path
क: । अस्मिन् । रेत: । नि । अदधात् । तन्तु: । आ । तायताम् । इति । मेधाम् । क: । अस्मिन् । अधि । औहत् । क: । बाणम् । क: । नृत: । दधौ ॥२.१७॥
Atharvaveda » Kand:10» Sukta:2» Paryayah:0» Mantra:17
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्यशरीर की महिमा का उपदेश।
Word-Meaning: - (कः) प्रजापति [परमेश्वर] ने (अस्मिन्) इस [मनुष्य] में (रेतः) पराक्रम [इसलिये] (नि) निरन्तर (अदधात्) रख दिया है [कि उस का] (तन्तुः) तन्तु [ताँता] (आ) चारों ओर (तायताम् इति) फैले। (कः) प्रजापति ने (मेधाम्) बुद्धि (अस्मिन्) इस [मनुष्य] में (अधि औहत्) लाकर दी है, (कः) प्रजापति ने (बाणम्) बोलना और (कः) प्रजापति ने (नृतः) नृत [शरीर चलाना] (दधौ) दिया है ॥१७॥
Connotation: - परमात्मा ने मनुष्य को पराक्रम, बुद्धि आदि इसलिये दिये हैं कि मनुष्य सब से यथावत् उपकार लेकर आगे बढ़े ॥१७॥
Footnote: १७−(कः) म० ५। प्रजापतिः (अस्मिन्) मनुष्ये (रेतः) पराक्रमम् (नि) निरन्तरम् (अदधात्) दत्तवान् (तन्तुः) सूत्रवद् विस्तारः (आ) समन्तात् (तायताम्) तनोतेर्यकि। पा० ६।४।४४। आकारोऽन्तादेशो वा। तन्यताम्। विस्तीर्यताम् (इति) वाक्यसमाप्तौ (मेधाम्) प्रज्ञाम् (कः) (अस्मिन्) (अधि) उपरि (औहत्) वह प्रापणे लङि छान्दसं रूपम्। अवहत्। प्रापितवान् (कः) (बाणम्) बण शब्दे-घञ्। वाणीम् (कः) (नृतः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। नृती गात्रविक्षेपे-असुन्, कित्। देहचालनम् (दधौ) ददौ ॥
