वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्र꣢ उ꣣क्थे꣢भि꣣र्म꣡न्दि꣢ष्ठो꣡ वा꣡जा꣢नां च꣣ वा꣡ज꣢पतिः । ह꣡रि꣢वान्त्सु꣣ता꣢ना꣣ꣳ स꣡खा꣢ ॥२२६

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवान्त्सुतानाꣳ सखा ॥२२६

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । उ꣣क्थे꣡भिः꣢ । म꣡न्दि꣢꣯ष्ठः । वा꣡जा꣢꣯नाम् । च꣣ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । ह꣡रि꣢꣯वान् । सु꣣ता꣢ना꣢म् । स꣡खा꣢꣯ । स । खा꣣ ॥२२६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 226 | (कौथोम) 3 » 1 » 4 » 4 | (रानायाणीय) 2 » 12 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि परमेश्वर कैसा है, और राजा कैसा हो।

पदार्थान्वयभाषाः -

प्रथम—परमेश्वर के पक्ष में। (इन्द्रः) परमैश्वर्यवान्, विघ्नों को विदीर्ण करनेवाला, सुख आदि का प्रदाता परमेश्वर (उक्थेभिः) वेदमन्त्रों से (मन्दिष्ठः) अतिशय आनन्दित करनेवाला, (वाजानां च) तथा सब बलों का (वाजपतिः) बलपति, (हरिवान्) प्रशस्त प्राणवाला, और (सुतानाम्) सब पुत्र-पुत्रियों का (सखा) मित्र है ॥ द्वितीय—राजा के पक्ष में। (इन्द्रः) राजा (उक्थेभिः) कीर्तियों से (मन्दिष्ठः) सबको अत्यन्त आनन्द देनेवाला, (वाजानां च) सब प्रकार के अन्नों, धनों, बलों और विज्ञानों का (वाजपतिः) स्वामी, (हरिवान्) जितेन्द्रिय अथवा राज्य में विद्युत् आदि से चलनेवाले तीव्रगामी भूमियान, जलयान और विमानों का प्रबन्ध करनेवाला और (सुतानाम्) पुत्रतुल्य प्रजाजनों का (सखा) मित्र हो ॥४॥ इस मन्त्र में श्लेषालङ्कार है ‘वाजा, वाज’ में छेकानुप्रास है ॥४॥

भावार्थभाषाः -

जैसे विश्व का सम्राट् परमेश्वर अनेक प्रकार के गुण-समूहों का अग्रणी है, वैसे ही प्रजाओं के बीच जो मनुष्य यशस्वी, यश देनेवाला, धनपति, बलवान्, विज्ञानी, जितेन्द्रिय, सुप्रबन्धक और सबके साथ सौहार्द से बरतनेवाला हो, उसी को राजा के पद पर अभिषिक्त करना चाहिए ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरः कीदृशोऽस्ति, राजा च कीदृशो भवेदित्याह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। (इन्द्रः) परमैश्वर्यवान्, विघ्नविदारकः, सुखादिप्रदाता परमेश्वरः (उक्थेभिः) उक्थैः वेदमन्त्रैः (मन्दिष्ठः) मन्त्राध्येतॄणाम् अतिशयेन हर्षयिता वर्तते। यथा कश्चिन्महाकविः स्वकाव्येन काव्यपाठकान् हर्षयति तथेत्यर्थः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, तृचि मन्दिता, अतिशयेन मन्दिता इति मन्दिष्ठः, मन्दितृ शब्दादिष्ठनि, ‘तुरिष्ठेमेयस्सु’ अ० ६।४।१५४ इति तृचो लोपः। (वाजानाम्१ च) बलानां च। वाज इति बलनाम। निघं० २।९। (वाजपतिः) बलपतिः अस्ति। किञ्च (हरिवान्) प्रशस्तप्राणवान् सः। प्रशस्तार्थे मतुप्। प्राणो वै हरिः, स हि हरति। कौ० ब्रा० १७।१। (सुतानाम्) सर्वेषाम् पुत्राणां सर्वासाम् पुत्रीणां च (सखा) मित्रम् अस्ति ॥ अथ द्वितीयः—राजपरः। (इन्द्रः) राजा (उक्थेभिः) यशोभिः (मन्दिष्ठः) अतिशयेन आनन्दजनकः, (वाजानाम् च) सर्वविधानाम् अन्नानां धनानां बलानां विज्ञानानां च (वाजपतिः) अन्नपतिः धनपतिः बलपतिः विज्ञानपतिश्च, (हरिवान्) हरन्ति जनं स्वस्वविषयेषु इति हरयः इन्द्रियाणि तद्वान् प्रशस्तेन्द्रियो जितेन्द्रियो वा, यद्वा हरन्ति वहन्तीति हरयः विद्युदादिभिः सञ्चाल्यमानानि तीव्रवेगानि भूजलान्तरिक्षयानानि तद्वान्, राज्ये तत्प्रबन्धकर्तेत्यर्थः, किञ्च (सुतानाम्) पुत्रतुल्यानां प्रजाजनानाम् (सखा) सुहृद् भवेत् ॥४॥ अत्र श्लेषालङ्कारः। ‘वाजा, वाज’ इत्यत्र च छेकानुप्रासः ॥४॥

भावार्थभाषाः -

यथा विश्वसम्राट् परमेश्वरो विविधगुणगणाग्रणीरस्ति, तथैव प्रजानां मध्ये यो जनः कीर्तिमान् कीर्तिजनको धनपतिर्बलवान् विज्ञानवान् जितेन्द्रियः सुप्रबन्धकः सर्वैः सह सौहार्देन व्यवहर्ता च भवेत् स एव राजपदेऽभिषेचनीयः ॥४॥

टिप्पणी: १. वाजपतिरिति वचनादेव गतार्थत्वे सति पुनः वाजानाम् इति कथनं बलानां व्यापकत्वं सूचयति, सर्वेषां बलानामधिपतिरित्यर्थः। सेयं शैली वेदे बहुत्र प्रयुक्ता, यथा—वसुपते वसूनाम् (ऋ० १०।४७।१), गोपतिं शूर गोनाम् (ऋ० ३।३६।९) इति।